ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥
स्यादेतत्नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति, अग्न्यादिगतिश्रुतेःतथा हि श्रुतिः मरणकाले वागादयः प्राणा अग्न्यादीन्देवान्गच्छन्तीति दर्शयतियत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः’ (बृ. उ. ३ । २ । १३) इत्यादिना इति चेत् , , भाक्तत्वात्वागादीनामग्न्यादिगतिश्रुतिर्गौणी, लोमसु केशेषु अदर्शनात्ओषधीर्लोमानि वनस्पतीन्केशाः’ (बृ. उ. ३ । २ । १३) इति हि तत्राम्नायते, हि लोमानि केशाश्चोत्प्लुत्य ओषधीर्वनस्पतींश्च गच्छन्तीति सम्भवति जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्पतेनापि प्राणैर्विना देहान्तरे उपभोग उपपद्यतेविस्पष्टं प्राणानां सह जीवेन गमनमन्यत्र श्रावितम्अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाले उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥ ४ ॥

प्राणानां गतिरसिद्धेत्याशङ्क्य निषेधति -

अग्न्यादीति ।

अदर्शनादोषधिवनस्पतिगमनस्येति शेषः । लोमान्यपियन्तीत्यर्थः । प्राणानामग्न्यादिषु लयस्य मुख्यत्वे जीवस्य गतिभोगयोरयोगात्सर्वे प्राणा अनूत्क्रामन्तीति विस्पष्टश्रुतेर्लोमादिगौणलयपाठाच्च गौणत्वमित्यर्थः ॥४॥