प्राणानां गतिरसिद्धेत्याशङ्क्य निषेधति -
अग्न्यादीति ।
अदर्शनादोषधिवनस्पतिगमनस्येति शेषः । लोमान्यपियन्तीत्यर्थः । प्राणानामग्न्यादिषु लयस्य मुख्यत्वे जीवस्य गतिभोगयोरयोगात्सर्वे प्राणा अनूत्क्रामन्तीति विस्पष्टश्रुतेर्लोमादिगौणलयपाठाच्च गौणत्वमित्यर्थः ॥४॥