ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अध्ययनमात्रवतः ॥ १२ ॥
आचार्यकुलाद्वेदमधीत्य’ (छा. उ. ८ । १५ । १) इत्यत्र अध्ययनमात्रस्य श्रवणात् अध्ययनमात्रवत एव कर्मविधिरित्यध्यवस्यामःननु एवं सति अविद्यत्वात् अनधिकारः कर्मसु प्रसज्येतनैष दोषः वयम् अध्ययनप्रभवं कर्मावबोधनम् अधिकारकारणं वारयामःकिं तर्हि ? औपनिषदमात्मज्ञानम् स्वातन्त्र्येणैव प्रयोजनवत् प्रतीयमानम् कर्माधिकारकारणतां प्रतिपद्यतेइत्येतावत्प्रतिपादयामःयथा क्रत्वन्तरज्ञानं क्रत्वन्तराधिकारेण अपेक्ष्यते, एवमेतदपि द्रष्टव्यमिति ॥ १२ ॥

मात्रपदमात्मज्ञानस्य व्यावर्तकं न कर्मज्ञानस्येत्याह -

नैष दोष इति ॥१२ ॥ ॥१३॥