मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायः
चतुर्थः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
अध्ययनमात्रवतः ॥ १२ ॥
‘
आचार्यकुलाद्वेदमधीत्य
’ (छा. उ. ८ । १५ । १)
इत्यत्र
अध्ययनमात्रस्य
श्रवणात्
अध्ययनमात्रवत
एव
कर्मविधिरित्यध्यवस्यामः
।
ननु
एवं
सति
अविद्यत्वात्
अनधिकारः
कर्मसु
प्रसज्येत
—
नैष
दोषः
।
न
वयम्
अध्ययनप्रभवं
कर्मावबोधनम्
अधिकारकारणं
वारयामः
।
किं
तर्हि
?
औपनिषदमात्मज्ञानम्
स्वातन्त्र्येणैव
प्रयोजनवत्
प्रतीयमानम्
न
कर्माधिकारकारणतां
प्रतिपद्यते
—
इत्येतावत्प्रतिपादयामः
।
यथा
च
न
क्रत्वन्तरज्ञानं
क्रत्वन्तराधिकारेण
अपेक्ष्यते
,
एवमेतदपि
द्रष्टव्यमिति
॥ १२ ॥
नैष दोष इति ॥१२ ॥ ॥१३॥
;
मात्रपदमात्मज्ञानस्य व्यावर्तकं न कर्मज्ञानस्येत्याह -
नैष दोष इति ॥१२ ॥ ॥१३॥