ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
कुर्वन्नेवेह कर्माणि’ (ई. उ. २) इत्यत्र अपरो विशेष आख्यायतेयद्यपि अत्र प्रकरणसामर्थ्यात् विद्वानेवकुर्वन्इति सम्बध्यते, तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्द्रष्टव्यम् कर्म लिप्यते नरे’ (ई. उ. २) इति हि वक्ष्यतिएतदुक्तं भवतियावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे कर्म लेपाय भवति, विद्यासामर्थ्यादितितदेवं विद्या स्तूयते ॥ १४ ॥

नियमवाक्यमज्ञविषयमित्युक्तं विदुषो ज्ञानस्तुत्यर्थं वेत्याह -

स्तुतय इति ।

एवं कर्म कुर्वित्यपि त्वयि नरे नेतो विद्यालब्धाद्ब्रह्मभावादन्यथास्ति कर्मणा संसारो नास्तीति यावत् । यतः कर्म न लिप्यते । अपूर्वरूपलेपाय न भवतीत्यर्थः श्रुतेरिति भावः ॥१४॥