ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
कामकारेण चैके ॥ १५ ॥
अपि एके विद्वांसः प्रत्यक्षीकृतविद्याफलाः सन्तः, तदवष्टम्भात् फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परामृशन्ति कामकारेणइति श्रुतिर्भवति वाजसनेयिनाम्एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति’ (बृ. उ. ४ । ४ । २२)अनुभवारूढमेव विद्याफलं क्रियाफलवत् कालान्तरभाविइत्यसकृदवोचामअतोऽपि विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फलश्रुतेरयथार्थत्वं शक्यमाश्रयितुम् ॥ १५ ॥

स्वेच्छातः कर्मसाधनप्रजादित्यालिङ्गाच्च विद्या स्वतन्त्रफलेत्याह -

कामेति ।

तदेतद्ब्रह्म येषां नोऽस्माकमयमपरोक्ष आत्मा अयमेव लोकः पुरुषार्थस्ते वयं किं प्रजादिना करिष्याम इत्यालोच्य कर्म त्यक्तवन्त इत्यर्थः ।

नन्वयं लोक इति ज्ञानफलस्य प्रत्यक्षत्वोक्तिरयुक्ता कर्मफलवददृष्टत्वादित्यत आह -

अनुभवेति ॥१५॥