ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
अनुष्ठेयम् आश्रमान्तरं बादरायण आचार्यो मन्यतेवेदेऽश्रवणादग्निहोत्रादीनां अवश्यानुष्ठेयत्वात् तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरम्इति हि इमां मतिं निराकरोति, गार्हस्थ्यवदेव आश्रमान्तरमपि अनिच्छता प्रतिपत्तव्यमिति मन्यमानःकुतः ? साम्यश्रुतेःसमा हि गार्हस्थ्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यतेत्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इत्याद्यायथा इह श्रुत्यन्तरविहितमेव गार्हस्थ्यं परामृष्टम् , एवमाश्रमान्तरमपीति प्रतिपत्तव्यम्यथा शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनावीतयोः परामर्श उपवीतविधिपरे वाक्येतस्मात् तुल्यमनुष्ठेयत्वं गार्हस्थ्येन आश्रमान्तरस्यतथा एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) इत्यस्य वेदानुवचनादिभिः समभिव्याहारःये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) इत्यस्य पञ्चाग्निविद्ययायत्तूक्तम् — ‘तप एव द्वितीयःइत्यादिष्वाश्रमान्तराभिधानं सन्दिग्धमितिनैष दोषः, निश्चयकारणसद्भावात्त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तः अन्यत्राश्रमसम्बन्धात् त्रित्वेऽन्तर्भावयितुं शक्यन्तेतत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टः, ब्रह्मचारीति स्पष्ट आश्रमनिर्देशः, तप इत्यपि कोऽन्यस्तपःप्रधानादाश्रमात् धर्मस्कन्धोऽभ्युपगम्येतये चेमेऽरण्ये’ (छा. उ. ५ । १० । १) इति अरण्यलिङ्गात् श्रद्धातपोभ्यामाश्रमगृहीतिःतस्मात् परमार्शेऽप्यनुष्ठेयमाश्रमान्तरम् ॥ १९ ॥

स्कन्धश्रुतावितराश्रमाः श्रुत्यन्तरविहिता अनूद्यन्ते एतद्वाक्यानुवाद्यत्वाद्गार्हस्थ्यवदिति सिद्धान्तयति -

अनुष्ठेयमिति ।

अनुवादस्य क्वचिद्विधिपूर्वकत्वे दृष्टान्तमाह -

यथा चेति ।

निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामिति वाक्ये दैवे कर्मण्युपवीतं विधीयते । तत्स्तुतये द्वयमनूद्यते । मानुषक्रियासु देहार्धवस्त्रबन्धनाख्यनिवीतस्य सौकर्यार्ततया प्राप्तत्वात्पित्र्ये कर्मणि प्राचीनावीतस्यापि विध्यन्तरप्राप्तत्वादित्यर्थः ।

वाक्यान्तरे च साक्षादेव पारिव्राज्यविधिर्विधेयैः साहित्यादित्याह -

तथैतमेवेति ।

अस्येति पारिव्राज्योक्तिः । विधेयवेदानुवचनादिसाहित्यात्पारिव्राज्यस्य विधेयतेत्यर्थः ।

वाक्यान्तरेऽपि साम्यश्रुतिमाह -

ये चेति ।

अस्येति वानप्रस्थोक्तिः । विधेयपञ्चाग्निविद्यया तानप्रस्थस्य सहोक्त्या तदपि विधेयमित्यर्थः ।

श्रुतत्रित्वान्यथानुपपत्त्या स्कन्धशब्दस्य आश्रमपरत्वनिश्चय इत्याह -

यत्तूक्तमित्यादिना ।

उत्पत्तिभिन्ना इति ।

यजेताध्येतव्यं दद्यादीति पृथगुत्पन्ना इत्यर्थः ॥१९॥