ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥
त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इत्यादयो ये शब्दा ऊर्ध्वरेतसामाश्रमाणां सद्भावाय उदाहृताः, ते तत्प्रतिपादनाय प्रभवन्ति; यतः परामर्शम् एषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते, विधिम्कुतः ? हि अत्र लिङादीनामन्यतमश्चोदनाशब्दोऽस्तिअर्थान्तरपरत्वं एषु प्रत्येकमुपलभ्यते । ‘त्रयो धर्मस्कन्धाःइत्यत्र तावत्यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्तिइति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं सङ्कीर्त्य, आत्यन्तिकफलतया ब्रह्मसंस्थता स्तूयतेब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २ । २३ । १) इतिननु परामर्शेऽपि आश्रमा गम्यन्ते एवसत्यं गम्यन्ते; स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिः, प्रत्यक्षश्रुतेःअतश्च प्रत्यक्षश्रुतिविरोधे सति अनादरणीयास्ते भविष्यन्ति, अनधिकृतविषया वाननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभिः परामृष्टम् — ‘यज्ञोऽध्ययनं दानमिति प्रथमःइतिसत्यमेवम्; तथापि तु गृहस्थं प्रत्येव अग्निहोत्रादीनां कर्मणां विधानात् श्रुतिप्रसिद्धमेव हि तदस्तित्वम्; तस्मात्स्तुत्यर्थ एव अयं परामर्शः, चोदनार्थःअपि अपवदति हि प्रत्यक्षा श्रुतिराश्रमान्तरम् — ‘वीरहा वा एष देवानां योऽग्निमुद्वासयतेआचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः’ (तै. उ. १ । ११ । १)नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुःइत्येवमाद्यातथा ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’ (मु. उ. १ । २ । ११) इति देवयानोपदेशः, आश्रमान्तरोपदेशःसन्दिग्धं आश्रमान्तराभिधानम्तप एव द्वितीयः’ (छा. उ. २ । २३ । १) इत्येवमादिषुतथा एतमे प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) इति लोकसंस्तवोऽयम् , पारिव्राज्यविधिःननुब्रह्मचर्यादेव प्रव्रजेत्इति विस्पष्टमिदं प्रत्यक्षं पारिव्राज्यविधानं जाबालानाम्सत्यमेवमेतत्; अनपेक्ष्य तु एतां श्रुतिम् अयं विचार इति द्रष्टव्यम् ॥ १८ ॥

संन्यासो नास्तीत्याक्षिपति -

परामर्शं जैमिनिरिति ।

ऊर्ध्वरेतः शब्दितं पारिव्राज्यमनुष्ठेयं न वेति मानभ्रान्तिमूलत्वाभ्यां संदेहे भ्रान्तिमूलत्वान्नानुष्ठेयमित्याह -

त्रय इति ।

आश्रमाणामवान्तरभेदापेक्षया बहुवचनम् । तथाच काण्वायनस्मृतिरर्थतोऽनुक्रम्यते । गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारीचतुर्विधः । तत्रोपनयनादूर्ध्वं यस्त्रिरात्रमक्षारालवणाशी गायत्रीमधीते स गायत्रः । यस्तु वेदस्य ग्रहणान्तं ब्रह्मचर्यं चरति स ब्राह्मः । ऋतुकाले स्वदारगामी नित्यं परस्त्रीविमुखः प्राजापत्यः, संवत्सरं वेदव्रतकृद्वटुर्वा प्राजापत्यः । आमरणं गुरुकुलवासी नैष्ठिको बृहन्नित्युच्यते । गृहस्थोऽपि चतुर्विधः वार्ताको यायावरः शालीनो घोरसंन्यसिकश्चेति । तत्र कृषिगोरक्षादिकया वैश्यादिवृत्त्या जीवन्नित्यादिक्रियापरो वार्ताकवृत्तिः । यायावरस्त्वयाचितवृत्तिर्याजनाध्यापनप्रतिग्रहविमुखः । शालीनस्तु षट्कर्मनिरतो याजनादिवृत्तिः संचयी । उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वन्प्रत्यहं कृतोञ्छवृत्तिर्ग्रामवासी घोरसंन्यसिक इत्युच्यते, हिंसाविमुखत्वात् । वानप्रस्थोऽपि चतुर्विधः वैखानस औदुम्बरो वालखिल्यः फेनपश्चेति । तत्राकृष्टपच्यौषधीभिर्ग्रामबहिष्कृताभिरग्निहोत्रादिकुर्वन्वैखानस उच्यते । यस्तु प्रातरुथाय यां दिशं पश्यति तत्रत्यौदुम्बरबदरीनीवारश्यामाकैः कर्मपरः स औदुम्बरः । यस्तु जटावल्कलधारी अष्टौ प्रातसान्वृत्त्युपार्जनं कृत्वा चातुर्मास्ये संगृहीताशी कार्तिक्यां संगृहीतपुष्पफलत्यागी स वालखिल्यः । फेनपास्तु शीर्णपर्णफलवृत्तयो यत्र क्वचिद्वसन्तः कर्मपरा इति । तथा परिव्राजाकाश्चतुर्विधाः कुटीचका बहूदका हंसाः परमहंसाश्चेति । तत्र स्वपुत्रगृहे भिक्षां चरन्तस्त्रिदण्डिनः कुटीचकाः । बहूदकास्तु त्रिदण्डिनः शिक्यजलपवित्रपादुकासनशिखायज्ञोपवीतकौपीनकाषायवेषधारास्तीर्थान्यटन्तो भैक्षं चरन्त आत्मानं प्रार्थयन्ते । हंसास्तु एकदण्डिनः शिखावर्जं यज्ञोपवीतधराः शिक्यकमण्डलुपाणयः ग्रामैकरात्रवासिनः कृच्छ्रचान्द्रायणपराः । परमहंसास्त्वेकदण्डधरा मुण्डा अयज्ञोपवीतिनः त्यक्तसर्वकर्माण आत्मनिष्ठा इति । अत्र पूर्वपक्षे संन्यासाभावाञ्ज्ञानस्य स्वतन्त्रफलत्वासिद्धिः सिद्धान्ते तद्भावात्तत्सिद्धिरिति फलभेदः । स्कन्धा आश्रमाः आत्मानं शरीरमाचार्यस्य कुले गृहे कर्शयन्नैष्ठिक इत्यर्थः ।

स्कन्धश्रुतावाश्रमा न विधीयन्ते किन्तु ब्रह्मसंस्थतास्तुर्थमनूद्यन्त इत्युक्ते शङ्कते -

ननु परामर्शेऽपीति ।

अनुवादापेक्षितपुरोवादात्प्रतीतिमङ्गीकरोति -

सत्यमिति ।

प्रत्यक्षा स्कन्धश्रुतिरेव पुरोवादोऽस्तु नानुवाद इत्यत आह -

स्मृतीति ।

तयोरपि इयमेव श्रुतिर्मूलमस्तु । कॢप्तश्रुतौ विधिमात्रकल्पनालाघवात् । अस्या अनुवादत्वे तु मूलत्वेन साग्निकानग्निकाश्रमश्रुतिस्तत्र विधिश्चेति द्वयकल्पनागौरवादित्यत आह -

अतश्चेति ।

स्मार्तत्वादाश्रमाः प्रत्यक्षयावज्जीवकर्मविधिश्रुत्यविरुद्धा ग्राह्याः । विरुद्धास्त्वनग्निकाश्रमा उपेक्ष्याः कर्मानधिकृतैरन्धादिभिर्वा अनुष्ठेया इत्यर्थः । यावज्जीवश्रुतिविरोधाल्लाघवं त्याज्यमिति भावः ।

स्कन्धश्रुतावनुवाद्यत्वाविशेषाद्गार्हस्थ्यवदितरेषामनुष्ठेयत्वमाशङ्क्य तस्य श्रौतत्वादनुष्ठानं नेतरेषामश्रौतत्वादतो ब्रह्मसंस्थतास्तुतिपरमिदं स्कन्धवाक्यमित्याह -

नन्वित्यादिना ।

तन्तुं संततिम् ।

तथा ये चेति ।

तेऽर्चिषमभिसंभवन्तीति वाक्यशेषादित्यर्थः ।

स्कन्धशब्दस्य आश्रमेष्वरूढत्वाच्चात्र नाश्रमिविधिरित्याह -

संदिग्धं चेति ।

तर्हि प्रव्रजन्तीत्याश्रमविधिरीत्यत आह -

तथैतमिति ।

आत्मलोको महीयान् यदर्थमशक्यां प्रव्रज्यामपि कुर्वन्तीति स्तुतिर्वर्तमानापदेशादित्यर्थः ।

संप्रति पूर्वपक्षमाक्षिप्येयं श्रुतिर्नास्तीतिकृत्वा चिन्त्यत इत्याह -

नन्वित्यादिना ॥१८॥