ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
अथ याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी कात्यायनी ’ (बृ. उ. ४ । ५ । १) प्रतर्दनो वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम’ (कौ. उ. ३ । १) जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस’ (छा. उ. ४ । १ । १) इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयःकिमिमानि पारिप्लवप्रयोगार्थानि, आहोस्वित्सन्निहितविद्याप्रतिपत्त्यर्थानीतिपारिप्लवार्था इमा आख्यानश्रुतयः, आख्यानसामान्यात् , आख्यानप्रयोगस्य पारिप्लवे चोदितत्वात्ततश्च विद्याप्रधानत्वं वेदान्तानां स्यात् , मन्त्रवत् प्रयोगशेषत्वादिति चेत्तन्नकस्मात् ? विशेषितत्वात् — ‘पारिप्लवमाचक्षीतइति हि प्रकृत्य, ‘मनुर्वैवस्वतो राजाइत्येवमादीनि कानिचिदेव आख्यानानि तत्र विशेष्यन्तेआख्यानसामान्याच्चेत् सर्वगृहीतिः स्यात् , अनर्थकमेवेदं विशेषणं भवेत्तस्मात् पारिप्लवार्था एता आख्यानश्रुतयः ॥ २३ ॥

पारिप्लवार्थाः ।

अश्वमेधे पुत्रादिपरिवृताय राज्ञे पारिप्लवमाचक्षीतेति नानाविधाख्यानकथनात्मकः पारिप्लवप्रयोगो विहितः । तथा च वेदान्तस्थकथानामाख्यानत्वसामान्याद्विद्यासंनिधानाच्च संशयमाह -

किमिति ।

पूर्वं स्तुत्यपेक्षया विझिर्ज्यायाननुष्ठानलाभादित्युक्तम् । तथैव कथानां न विद्यास्तावकत्वं पारिप्लवानुष्ठानलाभादिति पूर्वपक्षः ।

तत्र फलमाह -

ततश्चेति ।

यथा देवस्य त्वा सवितुरित्यादिमन्त्रे कस्यचित्पदस्य प्रयोगसमवेतार्थतया शेषस्य प्रयोगाङ्गत्वं तथा वेदान्तस्थकथानां प्रयोगशेषत्वम् । तदेकवाक्यतया सर्ववेदान्तानां कर्मशेषत्वान्न विद्याप्राधान्यमित्यर्थः ।

कथानां गुरुशिष्यसमाचारप्रदर्शनेन बुद्धिसौकर्यद्वारा संनिहितविद्याशेषत्वं सामर्ध्यलिङ्गादतो विद्याप्राधान्यमिति फलं मत्वा सिद्धान्तयति -

तन्नेत्यादिना ।

अश्वमेधे प्रथमऽहनि मनुर्वैवस्वत इति कथां ब्रूयाद्द्वितीयेऽहनि यमो वैवस्वत इति तृतीयेऽहनि वरुण आदित्य इति वाक्यशेषे कथानां विशिष्योक्तत्वादुपक्रमस्य संकोचो युक्त इति भावः ॥२३॥