ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
असति च पारिप्लवार्थत्वे आख्यानानां सन्निहितविद्याप्रतिपादनोपयोगितैव न्याय्या, एकवाक्यतोपबन्धात् । तथा हि तत्र तत्र सन्निहिताभिर्विद्याभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात् प्रतिपत्तिसौकर्योपयोगाच्च । मैत्रेयीब्राह्मणे तावत् — ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. ४ । ५ । ६) इत्याद्यया विद्यया एकवाक्यता दृश्यते; प्रातर्दनेऽपि ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्याद्यया । ‘जानश्रुतिः’ इत्यत्रापि ‘वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) इत्याद्यया । यथा ‘स आत्मनो वपामुदखिदत्’ इत्येवमादीनां कर्मश्रुतिगतानामाख्यानानां सन्निहितविधिस्तुत्यर्थता, तद्वत् । तस्मान्न पारिप्लवार्थत्वम् ॥ २४ ॥

क्व तर्हि कथानांविनियोग इत्याशङ्क्य संनिधानाद्विद्यास्वित्याह -

तथा चेति ।

प्ररोचनं प्रीतिजननं स प्रजापतिर्वपामुदखिदथोमायोद्धृतवानित्यस्य प्राजापत्यमजं तूपरमालभेतेति विधिशेषत्वे एवमन्येषां तत्तद्विधिशेषत्वं द्रष्टव्यम् ॥२४॥