एवमाद्याधिकरणप्रमेयं विद्यास्वातन्त्र्यमधिकरणत्रयेण दृढीकृत्याद्याधिकरणस्य फलमाह -
अत एव चेति ।
ब्रह्मविद्या स्वफले मोक्षे जनयितव्ये सहकारित्वेन कर्माण्यपेक्षते न वेति वादिविवादात्संशये तेनैति ब्रह्मवित्पुण्यकृत्तैजस इत्यादिश्रुत्या ज्ञानकर्मसमुच्चयेन मोक्षप्राप्तिकथनादपेक्षत इति प्राप्ते विद्याया मुक्तिहेतुत्वादविद्यानिवृत्त्याख्यमुक्तौ न कर्मापेक्षेति सिद्धान्तयति -
पुरुषार्थ इति ।
अग्नीन्धनपदेन तत्साध्यकर्माणि लक्ष्यन्ते । पुण्यकृत्तैजसः शुद्धसत्वे ब्रह्मविद्भूत्वा तेन वेदनेनैति ब्रह्म प्राप्नोतीति श्रुतिर्व्याख्येयेति भावः ।
मुक्तावेव कर्मणामसामर्थ्यादनपेक्षा विद्यायां त्वस्ति चित्तशुद्धिद्वारा तेषामपेक्षेत्यधिकं वक्तुमयमुपसंहार इत्युपसंहारसूत्रस्य फलमाह -
अधिकेति ॥२५॥