अधिकमाह -
सर्वापेक्षा ।
यथा प्रमाफलत्वादविद्यानिवृत्तौ कर्मानपेक्षा तथा प्रमात्वाद्विद्यायामपि प्रमाकरणमात्रसाध्यायां नास्ति कर्मापेक्षेति पूर्वपक्षः । तत्र विद्यार्थं कर्मानुष्ठानासिद्धिः । फलं सिद्धान्ते तत्सिद्धिरिति भेदः । अत्र विविदिषायामिष्यमाणज्ञाने वा यज्ञादीनां कर्मणां हेतुत्वमपूर्वत्वाद्विधीयते । प्रमाया अप्युत्पत्तिप्रतिबन्धकदुरितक्षयाख्यशुद्धिद्वारा कर्मसाध्यत्वसंभवात् । नच पारंपर्ये तृतीयाश्रुतिविरोधः । ज्वालाद्वारा पारंपर्येऽपि काष्ठैः पचतीति प्रयोगात्, द्वारस्याव्यवधायकत्वात् । न च शुद्धेर्द्वारत्वे मानाभावः । 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते' इति स्मृतेः ।
'अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इत्यादिश्रुत्या कर्मणा पापनिवृत्तौ ज्ञानेन मुक्त्यभिधानाच्चेति सिद्धान्तयति -
इदमिति ।
नन्वत्र विविदिषन्तीति पञ्चमलकारेण विविदिषां भावयेयुरिति सनर्थेच्छैव भाव्यतया भाति । तां विषयसौन्दर्यलभ्यतयोल्लङ्घ्य वेदनं चेद्भाव्यमुच्यते तर्हि वेदनमप्युल्लङ्घ्य तत्फलं मोक्ष एव कर्मभिर्भाव्यः किं न स्यादित्यत आह -
विविदिषासंयोगाच्चेति ।
इष्यमाणतया विद्यायाः शब्दतः फलत्वभानादश्रुतमोक्षो न फलमन्यथा काष्ठैः पचतीत्यत्रापि काष्ठानां पाकफलतृप्तिहेतुत्वप्रसङ्गादिति भावः ।
कर्मणां ज्ञानार्थत्वे लिङ्गवाक्यान्याह -
अथेत्यादिना ।
कश्चिद्वेदभागः साक्षाद्ब्रह्माख्यं पदं ब्रूते । कश्चित्तु ज्ञानार्थकर्मद्वारेति मत्वा सर्वे वेदान्ता इत्युक्तम् । स्पष्टमन्यत् ॥२६॥