ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥
यदि कश्चिन्मन्येत — यज्ञादीनां विद्यासाधनभावो न न्याय्यः, विध्यभावात् । ‘यज्ञेन विविदिषन्ति’ इत्येवंजातीयका हि श्रुतिः अनुवादस्वरूपा विद्याभिष्टवपरा, न यज्ञादिविधिपरा — इत्थं महाभागा विद्या, यत् यज्ञादिभिरेतामवाप्तुमिच्छन्तीति — तथापि तु शमदमाद्युपेतः स्यात् विद्यार्थी, ‘तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति’ (बृ. उ. ४ । ४ । २३) इति विद्यासाधनत्वेन शमदमादीनां विधानात् विहितानां च अवश्यानुष्ठेयत्वात् । ननु अत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते, न विधिः ; नेति ब्रूमः, ‘तस्मात्’ इति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः । ‘पश्येत्’ इति च माध्यन्दिना विस्पष्टमेव विधिमधीयते । तस्मात् यज्ञाद्यनपेक्षायामपि शमादीन्यपेक्षितव्यानि । यज्ञादीन्यपि तु अपेक्षितव्यानि, यज्ञादिश्रुतेरेव । ननु उक्तम् — यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति — सत्यमुक्तम्; तथापि तु अपूर्वत्वात्संयोगस्य विधिः परिकल्प्यते । न हि अयं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तः, येनानूद्येत । ‘तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि’ इत्येवमादिषु च अश्रुतविधिकेष्वपि वाक्येषु अपूर्वत्वाद्विधिं परिकल्प्य, ‘पौष्णं पेषणं विकृतौ प्रतीयेत’ (शाब. भा. ३ । ३ । ३४) — इत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः । तथा च उक्तम् ‘विधिर्वा धारणवत्’ (ब्र. सू. ३ । ४ । २०) इति । स्मृतिष्वपि भगवद्गीताद्यासु अनभिसन्धाय फलम् अनुष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम् । तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येव आश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि । तत्रापि ‘एवंवित्’ इति विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि, विविदिषासंयोगात्तु बाह्यतराणि यज्ञादीनीति विवेक्तव्यम् ॥ २७ ॥

एवं विद्योत्पत्तौ बहिरङ्गानि कर्माण्युक्त्वान्तरङ्गाण्याह -

शमेति ।

विद्यास्तुत्यर्थत्वेनैकवाक्यत्वसंभवे वर्तमानोक्तिभङ्गेन विधिकल्पनमयुक्तं विद्यावाक्याद्भेदप्रसङ्गात् । अतस्तत्त्वमसीति शब्दमात्रलभ्या विद्येति पराभिप्रायमनूद्याङ्गीकरोति -

तथापि त्विति ।

शमादेरावश्यकत्वान्न शब्दमात्रलभ्या विद्येत्यर्थः ।

यस्मादेवंविन्न लिप्यते कर्मणा पापकेन तस्मादेव विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति विधिर्गम्यत इत्याह -

नेति ब्रूम इति ।

अत्रोपरतपदेन संन्यास उक्तस्तस्य श्रवणाङ्गत्वमते शमादिविशिष्टश्रवणमत्र विधीयते । यदि तुऽलोकमिच्छन्तः प्रव्रजन्तिऽ,ऽज्ञानं पुरस्कृत्य संन्यसेत्ऽइत्यादि श्रुतिस्मृतिषु फलवत्त्वेनोत्पन्नसंन्यासस्याङ्गत्वायोगात्, श्रोतव्य इति विहितश्रवणानुवादेनानेकशमादिविधाने वाक्यभेदापातात्, पश्येदिति च प्रकृत्या श्रवणलक्षणादोषाच्च संन्यासो न श्रवणस्याङ्गं किन्तु ततः प्रागनुष्ठोयत्वेऽपि श्रवणवज्ज्ञानार्थ इति मतं तदा शमादिसमुच्चयेन ज्ञानं भावयेदिति ज्ञानार्थं शमादिसमुच्चयविधिरित्यनवद्यम् ।

यः पूर्वं यज्ञादिश्रुतेः स्तुत्यर्थत्वाङ्गीकारः आपाततो गुडजिह्विकान्यायेन शमादिस्वीकारार्थं कृतस्तमिदानीं त्यजति -

यज्ञादीन्यपीति ।

यज्ञादीनां विद्यासाधनत्वरूपसंयोगस्यापूर्वत्वादवान्तरवाक्यभेदेन विधिः स्वीक्रियत । ब्रह्मविद्यावाक्येन महावाक्यैकवाक्यता चेत्यर्थः ।

परमप्रकरणेऽप्यवान्तरविधिरित्यत्र पूर्वतन्त्रसंमतिमाह -

तस्मात्पूषेति ।

दर्शपूर्णमासप्रकरणे श्रुतं पूषा प्रपिष्टभाग इति । तत्र पूषा देवता पिष्टभागो वा दर्शपूर्ममासयोर्नास्ति । अतः समासात्प्रतीतस्य कालत्रयानवमृष्टस्य द्रव्यदेवतासंबन्धस्याविनाभावेन यागविध्युपस्थापकत्वात्प्रयोगज्ञानाय विधिपदमध्याहृत्य प्रकरणादुत्कर्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ संबन्धः । पौष्णं पेषणमिति सूत्रे विचारितमित्यर्थः ।

'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' इत्याद्याः स्मृत्यः । कर्मणां ज्ञानहेतुत्वे शमादिवद्यावज्ज्ञानोदयमनुवृत्तिः स्यात्तथाच संन्यासाभाव इत्यत आह -

तत्रापीति ।

दृष्टविक्षेपनिवृत्तिद्वारा शमादीनां शानार्थत्वादनुवृत्तिर्न कर्मणामदृष्टद्वारा ज्ञानार्थत्वादिति भावः ॥२७॥