ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
इदमिदानीं चिन्त्यतेकिं विद्याया अत्यन्तमेवानपेक्षा आश्रमकर्मणाम् , उत अस्ति काचिदपेक्षेतितत्र अत एवाग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्ष्यन्ते, इत्येवमत्यन्तमेवानपेक्षायां प्राप्तायाम् , इदमुच्यतेसर्वापेक्षा चेतिअपेक्षते विद्या सर्वाण्याश्रमकर्माणि, नात्यन्तमनपेक्षैवननु विरुद्धमिदं वचनम्अपेक्षते आश्रमकर्माणि विद्या, नापेक्षते चेतिनेति ब्रूमःउत्पन्ना हि विद्या फलसिद्धिं प्रति किञ्चिदन्यदपेक्षते, उत्पत्तिं प्रति तु अपेक्षतेकुतः ? यज्ञादिश्रुतेःतथा हि श्रुतिःतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ (बृ. उ. ४ । ४ । २२) इति यज्ञादीनां विद्यासाधनभावं दर्शयतिविविदिषासंयोगाच्चैषामुत्पत्तिसाधनभावोऽवसीयतेअथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत्’ (छा. उ. ८ । ५ । १) इत्यत्र विद्यासाधनभूतस्य ब्रह्मचर्यस्य यज्ञादिभिः संस्तवात् यज्ञादीनामपि हि साधनभावः सूच्यतेसर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि यद्वदन्तियदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि’ (क. उ. १ । २ । १५) इत्येवमाद्या श्रुतिः आश्रमकर्मणां विद्यासाधनभावं सूचयतिस्मृतिरपि — ‘कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिःकषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्ततेइत्येवमाद्याअश्ववदिति योग्यतानिदर्शनम्यथा योग्यतावशेन अश्वो लाङ्गलाकर्षणे युज्यते, रथचर्यायां तु युज्यते, एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्ते, उत्पत्तौ अपेक्ष्यन्त इति ॥ २६ ॥

अधिकमाह -

सर्वापेक्षा ।

यथा प्रमाफलत्वादविद्यानिवृत्तौ कर्मानपेक्षा तथा प्रमात्वाद्विद्यायामपि प्रमाकरणमात्रसाध्यायां नास्ति कर्मापेक्षेति पूर्वपक्षः । तत्र विद्यार्थं कर्मानुष्ठानासिद्धिः । फलं सिद्धान्ते तत्सिद्धिरिति भेदः । अत्र विविदिषायामिष्यमाणज्ञाने वा यज्ञादीनां कर्मणां हेतुत्वमपूर्वत्वाद्विधीयते । प्रमाया अप्युत्पत्तिप्रतिबन्धकदुरितक्षयाख्यशुद्धिद्वारा कर्मसाध्यत्वसंभवात् । नच पारंपर्ये तृतीयाश्रुतिविरोधः । ज्वालाद्वारा पारंपर्येऽपि काष्ठैः पचतीति प्रयोगात्, द्वारस्याव्यवधायकत्वात् । न च शुद्धेर्द्वारत्वे मानाभावः । 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते' इति स्मृतेः ।

'अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इत्यादिश्रुत्या कर्मणा पापनिवृत्तौ ज्ञानेन मुक्त्यभिधानाच्चेति सिद्धान्तयति -

इदमिति ।

नन्वत्र विविदिषन्तीति पञ्चमलकारेण विविदिषां भावयेयुरिति सनर्थेच्छैव भाव्यतया भाति । तां विषयसौन्दर्यलभ्यतयोल्लङ्घ्य वेदनं चेद्भाव्यमुच्यते तर्हि वेदनमप्युल्लङ्घ्य तत्फलं मोक्ष एव कर्मभिर्भाव्यः किं न स्यादित्यत आह -

विविदिषासंयोगाच्चेति ।

इष्यमाणतया विद्यायाः शब्दतः फलत्वभानादश्रुतमोक्षो न फलमन्यथा काष्ठैः पचतीत्यत्रापि काष्ठानां पाकफलतृप्तिहेतुत्वप्रसङ्गादिति भावः ।

कर्मणां ज्ञानार्थत्वे लिङ्गवाक्यान्याह -

अथेत्यादिना ।

कश्चिद्वेदभागः साक्षाद्ब्रह्माख्यं पदं ब्रूते । कश्चित्तु ज्ञानार्थकर्मद्वारेति मत्वा सर्वे वेदान्ता इत्युक्तम् । स्पष्टमन्यत् ॥२६॥