ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत, किं तस्य ‘ब्रह्मचार्यवकीर्णी नैऋतं गर्दभमालभेत’ इत्येतत्प्रायश्चित्तं स्यात् , उत नेति । नेत्युच्यते; यदपि अधिकारलक्षणे निर्णीतं प्रायश्चित्तम् ‘अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्’ (जै. सू. ६ । ८ । २२) इति, तदपि न नैष्ठिकस्य भवितुमर्हति । किं कारणम् ? ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’(अ॰पु॰ १६५-२३,२४) इति अप्रतिसमाधेयपतनस्मरणात् छिन्नशिरस इव प्रतिक्रियानुपपत्तेः । उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम् ॥ ४१ ॥

न चाधिकारिकम् ।

अवकीर्येत व्यभिचरेदित्यर्थः । अवकीर्णं योनौ निषिक्तं रेतोऽस्यास्तीत्यवकीर्णी । अत्र प्रच्युतस्य प्रायश्चित्तं स्यान्नवेति उपपातकत्वात्पतनस्मृतेश्च संशयः ।

प्रच्युतस्य यज्ञादिकं निष्फलमित्युक्तं तद्वत्प्रायश्चित्तमापि निष्फलमिति पूर्वपक्षयति -

नेत्युच्यत इति ।

अत्र कृतप्रायश्चित्तस्य कर्म ज्ञानहेतुर्न भवतीति फलं सिद्धान्ते तु भवतीतिदः । यथोपनयनकाले होमो लौकिकाग्नावेव कार्यः । दारसंबन्धोत्तरकालविहिताधानस्य संप्रत्यप्राप्तकालत्वेनाहवनीयाभावात्तद्वदवकीर्णिनो ब्रह्मचारिणः प्रायश्चित्तपशुर्गर्दभो लौकिकाग्नौ होतव्य इत्यधिकारलक्षणे षष्ठाध्याये निर्णीतं प्रायश्चित्तमाधिकारिकं तदुपकुर्वाणस्यैव न नैष्ठिकस्येति प्राप्ते सिद्धान्तयति ॥४१॥