ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
अपि तु एके आचार्या उपपातकमेवैतदिति मन्यन्ते । यत् नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रह्मचर्यं विशीर्येत, न तत् महापातकं भवति, गुरुतल्पादिषु महापातकेष्वपरिगणनात् । तस्मात् उपकुर्वाणवत् नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति, ब्रह्मचारित्वाविशेषात् अवकीर्णित्वाविशेषाच्च । अशनवत् — यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनः संस्कारश्च, एवमिति । ये हि प्रायश्चित्तस्याभावमिच्छन्ति, तेषां न मूलमुपलभ्यते । ये तु भावमिच्छन्ति, तेषां ‘ब्रह्मचार्यवकीर्णी’ इत्येतदविशेषश्रवणं मूलम् । तस्मात् भावो युक्ततरः । तदुक्तं प्रमाणलक्षणे — ‘समा विप्रतिपत्तिः स्यात्’ (जै. सू. १ । ३ । ८) ‘शास्त्रस्था वा तन्निमित्तत्वात्’ (जै. सू. १ । ३ । ९) इति । प्रायश्चित्ताभावस्मरणं तु एवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम् । एवं भिक्षुवैखानसयोरपि — ‘वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्’ ,‘भिक्षुर्वानप्रस्थवत्सोमवल्लिवर्जं स्वशास्त्रसंस्कारश्च’(व॰ध॰ २१-३५,३६) इत्येवमादि प्रायश्चित्तस्मरणम् अनुसर्तव्यम् ॥ ४२ ॥

उपपूर्वमिति ।

उपपदं पूर्वं यस्य पातकस्य तदुपपातकमित्यर्थः । ऽप्रायश्चित्तं न पश्यामिऽइति दर्शनाभावस्मृतेः प्रायश्चित्ताभावापरत्वं कल्पयित्वा तन्मूलश्रुतिकल्पनात्प्रागेव कॢप्तसाधारणश्रुत्या प्रायश्चित्तसद्भावसिद्धेः । कल्पनं नोदेति कॢप्तश्रुतिविरोधादिति भावः ।

प्रायश्चित्तस्य भावाभावसिद्ध्योः समत्वेऽपि भावप्रसिद्धिः श्रुतिमूलत्वादादर्तव्येत्यत्र संमतिमाह -

तदुक्तमिति ।

यवमयश्चरूरित्यत्र यवशब्दङ्केचिद्दीर्घशूके प्रयुञ्जते केचिद्देशविशेषे प्रियङ्गुषु । अतः कस्य चरुः कार्य इति संदेहे वृद्धप्रयोगसाम्यात्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादिति प्राप्ते सिद्धान्तःशास्त्रमूला प्रतिपत्तिर्ग्राह्या शास्त्रनिमित्तत्वाद्धर्मादिज्ञानस्य । तथाचऽयदान्या ओषधयो म्लायन्त्यथैते यवा मोदमानास्तिष्ठन्ति, इति शास्त्रमूलत्वाद्दीर्घशूकप्रयोगस्यैवादर इत्यर्थः ।

स्मृतेर्गतिमाह -

प्रायश्चित्तेति ।

ब्रह्मचर्यरक्षार्थं यत्नाधिक्यं कार्यमिति ज्ञापनार्थं प्रायश्चित्तं स्पष्टमपि न पश्यामीत्युक्तं भगवदत्रिणेत्यर्थः ।

नैष्ठिकवद्यतिवनस्थयोरपि प्रमादाद्ब्रह्मचर्यभङ्गे प्रायश्चित्तमस्तीत्याह -

एवमिति ।

कृच्छ्रं प्राजापत्यं महाकक्षं बहुतृणकाष्ठदेशं जलदानादिना वर्धयेत । यतिस्तु सोमलतावर्जं वर्धयेत् । ऽसर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । भूयस्तपस्वी भवति पङ्क्तिपावन एव च । उपापातकसङ्घेषु पातकेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥ ऽइत्यादिस्वशास्त्रविहितध्यानप्राणायामादिसंस्कारोऽपि भिक्षुणा कार्य इत्यर्थः । आदिपदात्ऽमनोवाक्कायजान्दोषानज्ञानोत्थान्प्रमादजान् । सर्वान्दहति योगाग्निस्तूलराशिमिवानलः । नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः । ऽइत्यादिवाक्यं ग्राह्यम् ॥४२॥