ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तृतीयेऽध्याये परापरासु विद्यासु साधनाश्रयो विचारः प्रायेण अत्यगात् । अथेह चतुर्थे फलाश्रय आगमिष्यति । प्रसङ्गागतं च अन्यदपि किञ्चिच्चिन्तयिष्यते । प्रथमं तावत् कतिभिश्चिदधिकरणैः साधनाश्रयविचारशेषमेवानुसरामः —

चतुर्थेऽध्याये प्रथमः पादः ।

ओम् । यज्ज्ञानाज्जीवतो मुक्तिरुत्क्रान्तिगतिवर्जिता ।
लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम् ।

आवृत्तिरसकृदुपदेशात् ।

साधनं निरूप्य फलं निरूप्यत इत्यध्याययोर्हेतुफलभावं सङ्गतिमाह -

तृतीय इति ।

फलप्रसङ्गेनोत्क्रान्तिरर्चिरादिमार्गश्च विचार्यत इत्याह -

प्रसङ्गेति ।

पूर्वं साक्षादेव श्रुत्युक्तं संन्यासादि साधनं चिन्तितम् , सम्प्रति फलार्थापत्तिगम्यमावृत्त्यादिकमद्याश्लेषाधिकरणात्प्राक्चिन्त्यते, तदारभ्य जीवन्मुक्तिस्ततो द्वितीयपादे उत्क्रान्तिस्तृतीये अर्चिरादिमार्गस्य गन्तव्यस्य च निर्णयश्चतुर्थे ज्ञानोपासनयोः फलनिर्णय इति पादार्थविवेकः ।