ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
आवृत्तिरसकृदुपदेशात् ॥ १ ॥
‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. ४ । ५ । ६) ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत’ (बृ. उ. ४ । ४ । २१) ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) इति च एवमादिश्रवणेषु संशयः — किं सकृत्प्रत्ययः कर्तव्यः, आहोस्वित् आवृत्त्येति । किं तावत्प्राप्तम् ? सकृत्प्रत्ययः स्यात् , प्रयाजादिवत् , तावता शास्त्रस्य कृतार्थत्वात् । अश्रूयमाणायां हि आवृत्तौ क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत् । ननु असकृदुपदेशा उदाहृताः — ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्येवमादयः। एवमपि यावच्छब्दमावर्तयेत् — सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति, नातिरिक्तम् । सकृदुपदेशेषु तु ‘वेद’ ‘उपासीत’ इत्येवमादिषु अनावृत्तिरित्येवं प्राप्ते, ब्रूमः — प्रत्ययावृत्तिः कर्तव्या । कुतः ? असकृदुपदेशात् — ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्येवंजातीयको हि असकृदुपदेशः प्रत्ययावृत्तिं सूचयति । ननु उक्तम् — यावच्छब्दमेव आवर्तयेत् , नाधिकमिति — न, दर्शनपर्यवसानत्वादेषाम् । दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवन्ति — यथा अवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि, तद्वत् । अपि च उपासनं निदिध्यासनं च इत्यन्तर्णीतावृत्तिगुणैव क्रिया अभिधीयते । तथा हि लोके ‘गुरुमुपास्ते’ ‘राजानमुपास्ते’ इति च यस्तात्पर्येण गुर्वादीननुवर्तते, स एवमुच्यते । तथा ‘ध्यायति प्रोषितनाथा पतिम्’ इति — या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा, सा एवमभिधीयते । विद्युपास्त्योश्च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते; क्वचित् विदिनोपक्रम्य उपासिनोपसंहरति, यथा — ‘यस्तद्वेद यत्स वेद स मयैतदुक्तः’ (छा. उ. ४ । १ । ४) इत्यत्र ‘अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से’ (छा. उ. ४ । २ । २) इति । क्वचिच्च उपासिनोपक्रम्य विदिनोपसंहरति, यथा — ‘मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) इत्यत्र ‘भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद’ (छा. उ. ३ । १८ । ३) इति । तस्मात्सकृदुपदेशेष्वपि आवृत्तिसिद्धिः । असकृदुपदेशस्तु आवृत्तेः सूचकः ॥ १ ॥

आद्याधिकरणस्य श्रवणादिसाधनं विषयमनूद्य द्वेधानुष्ठानदर्शनात्संशयमाह -

आत्मा वा इति ।

श्रौतात्मधीसाधनफलविचारात्मकत्वात्सर्वाधिकरणानां श्रुतिशास्त्राध्यायसङ्गतय उक्ताः । तत्तत्पदार्थसम्बन्धात्तत्तत्पादसङ्गतिः ।

मोक्षे विशेषाभाववच्छ्रवणादावावृत्तिविशेषो नास्तीति दृष्टान्तलक्षणावान्तरसङ्गत्या पूर्वपक्षमाह -

किं तावदिति ।

अत्र पूर्वपक्षे श्रवणादेः प्रयाजवददृष्टार्थत्वात्सकृदनुष्ठानं फलम् , सिद्धान्ते त्ववघातवद्दृष्टार्थत्वाद्यावत्फलमावृत्तिरिति भेदः ।

असकृदुपदेशान्यथानुपपत्त्या साधनावृत्तौ शास्त्रस्य तात्पर्यमिति शङ्कते -

नन्वसकृदिति ।

श्रवणादीनां समुच्चयसिध्यर्थत्वेनासकृदुक्तेरन्यथोपपत्तेर्नावृत्तौ तात्पर्यमित्याह -

एवमपीति ।

सगुणसाक्षात्कारसाधनेष्वप्यनावृत्तिमाह -

सकृदिति ।

यद्यप्यसकृदुपदेशावृत्तिसमुच्चययोरन्यतरसूचकत्वेनान्यथासिद्धः, तथापि दृष्टे सम्भवत्यदृष्टमात्रकल्पनानुपपत्तेः श्रवणादेरावृत्तिद्वारा साक्षात्कारफलस्य षड्जादौ दृष्टत्वादसकृदुक्तिरावृत्तिं सूचयति दृष्टार्थत्वादिति न्यायानुग्रहादित्याह -

न दर्शनपर्यवसानत्वादिति ।

ध्यानस्य त्वावृत्तेर्वेदोपासीतेति शब्दे श्रुतत्वान्न केवलार्थिकत्वमित्याह -

अपि चेति ।

अस्त्युपास्तिशब्दस्यावृत्तिवाचित्वं तथापि वेदेतिशब्दोक्तवेदनेष्वहङ्ग्रहेषु कथमावृत्तिसिद्धिरित्यत आह -

विद्युपास्त्योश्चेति ।

शब्दयोरेकार्थत्वमुदाहरति -

क्वचिदिति ।

स रैक्वो यद्वेद तत्प्राणतत्त्वं रैक्वादन्योऽपि यः कश्चिद्वेद तत्फले सर्वमन्तर्भवतीत्येतदुक्ते इत्थं मयोत्कृष्टत्वेन स रैक्व उक्त इति हंसं प्रति हंसान्तरवचनम् , तच्छ्रुत्वा रैक्वं गत्वोवाच जानश्रुतिः, हे भगवः, एतां रैक्वविदितां देवतां मेऽनुशाधि मह्यमुपदिशेत्यर्थः । एवं सगुणनिर्गुणसाक्षात्कारसाधनध्यानस्यावृत्तिः श्रौती चार्थसिद्धा च दृष्टार्थत्वात्, श्रवणमननयोस्त्वसकृदुपदेशादर्थसिद्धैवावृत्तिरिति विशेषः ॥१॥