आद्याधिकरणस्य श्रवणादिसाधनं विषयमनूद्य द्वेधानुष्ठानदर्शनात्संशयमाह -
आत्मा वा इति ।
श्रौतात्मधीसाधनफलविचारात्मकत्वात्सर्वाधिकरणानां श्रुतिशास्त्राध्यायसङ्गतय उक्ताः । तत्तत्पदार्थसम्बन्धात्तत्तत्पादसङ्गतिः ।
मोक्षे विशेषाभाववच्छ्रवणादावावृत्तिविशेषो नास्तीति दृष्टान्तलक्षणावान्तरसङ्गत्या पूर्वपक्षमाह -
किं तावदिति ।
अत्र पूर्वपक्षे श्रवणादेः प्रयाजवददृष्टार्थत्वात्सकृदनुष्ठानं फलम् , सिद्धान्ते त्ववघातवद्दृष्टार्थत्वाद्यावत्फलमावृत्तिरिति भेदः ।
असकृदुपदेशान्यथानुपपत्त्या साधनावृत्तौ शास्त्रस्य तात्पर्यमिति शङ्कते -
नन्वसकृदिति ।
श्रवणादीनां समुच्चयसिध्यर्थत्वेनासकृदुक्तेरन्यथोपपत्तेर्नावृत्तौ तात्पर्यमित्याह -
एवमपीति ।
सगुणसाक्षात्कारसाधनेष्वप्यनावृत्तिमाह -
सकृदिति ।
यद्यप्यसकृदुपदेशावृत्तिसमुच्चययोरन्यतरसूचकत्वेनान्यथासिद्धः, तथापि दृष्टे सम्भवत्यदृष्टमात्रकल्पनानुपपत्तेः श्रवणादेरावृत्तिद्वारा साक्षात्कारफलस्य षड्जादौ दृष्टत्वादसकृदुक्तिरावृत्तिं सूचयति दृष्टार्थत्वादिति न्यायानुग्रहादित्याह -
न दर्शनपर्यवसानत्वादिति ।
ध्यानस्य त्वावृत्तेर्वेदोपासीतेति शब्दे श्रुतत्वान्न केवलार्थिकत्वमित्याह -
अपि चेति ।
अस्त्युपास्तिशब्दस्यावृत्तिवाचित्वं तथापि वेदेतिशब्दोक्तवेदनेष्वहङ्ग्रहेषु कथमावृत्तिसिद्धिरित्यत आह -
विद्युपास्त्योश्चेति ।
शब्दयोरेकार्थत्वमुदाहरति -
क्वचिदिति ।
स रैक्वो यद्वेद तत्प्राणतत्त्वं रैक्वादन्योऽपि यः कश्चिद्वेद तत्फले सर्वमन्तर्भवतीत्येतदुक्ते इत्थं मयोत्कृष्टत्वेन स रैक्व उक्त इति हंसं प्रति हंसान्तरवचनम् , तच्छ्रुत्वा रैक्वं गत्वोवाच जानश्रुतिः, हे भगवः, एतां रैक्वविदितां देवतां मेऽनुशाधि मह्यमुपदिशेत्यर्थः । एवं सगुणनिर्गुणसाक्षात्कारसाधनध्यानस्यावृत्तिः श्रौती चार्थसिद्धा च दृष्टार्थत्वात्, श्रवणमननयोस्त्वसकृदुपदेशादर्थसिद्धैवावृत्तिरिति विशेषः ॥१॥