ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
लिङ्गाच्च ॥ २ ॥
लिङ्गमपि प्रत्ययावृत्तिं प्रत्याययति । तथा हि — उद्गीथविज्ञानं प्रस्तुत्य, ‘आदित्य उद्गीथः’ (छा. उ. १ । ५ । १) इत्येतत् एकपुत्रतादोषेणापोद्य, ‘रश्मींस्त्वं पर्यावर्तयात्’ (छा. उ. १ । ५ । २) इति रश्मिबहुत्वविज्ञानं बहुपुत्रतायै विदधत् सिद्धवत्प्रत्ययावृत्तिं दर्शयति । तत्सामान्यात् सर्वप्रत्ययेष्वावृत्तिसिद्धिः ॥

आदित्यस्यैकस्यैवोद्गीथे सम्पाद्योपासनान्मम त्वमेक एव पुत्रोऽसीति कौषीतकिः पुत्रमुवाच, अतस्त्वं तथा माकृथाः किन्तु बहून् रश्मीनादित्यं च पर्यावर्तयतात्पृथगावर्तयस्वेत्यर्थः । तलोपश्छान्दसः । अत्र पर्यावृत्तिशब्दात्सिद्धवदुद्गीथध्यानस्यावृत्तिरुक्ता ततो ध्यानत्वसामान्यात्फलपर्यन्तत्वसामान्याद्वा लिङ्गात्सर्वत्र श्रवणमननध्यानेष्वावृत्तिसिद्धिरित्याह -

लिङ्गाच्चेति ।