ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
लिङ्गाच्च ॥ २ ॥
अत्रोच्यते — भवेदावृत्त्यानर्थक्यं तं प्रति, यः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति सकृदुक्तमेव ब्रह्मात्मत्वमनुभवितुं शक्नुयात् । यस्तु न शक्नोति, तं प्रति उपयुज्यत एव आवृत्तिः । तथा हि छान्दोग्ये — ‘तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इत्युपदिश्य, ‘भूय एव मा भगवान्विज्ञापयतु’ (छा. उ. ६ । ८ । ७) इति पुनः पुनः परिचोद्यमानः तत्तदाशङ्काकारणं निराकृत्य, ‘तत्त्वमसि’ इत्येवासकृदुपदिशति; तथा च ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. ४ । ५ । ६) इत्यादि दर्शितम् । ननु उक्तम् — सकृच्छ्रुतं चेत् तत्त्वमसिवाक्यं स्वमर्थमनुभावयितुं न शक्नोति, तत आवर्त्यमानमपि नैव शक्ष्यतीति — नैष दोषः । न हि दृष्टेऽनुपपन्नं नाम । दृश्यन्ते हि सकृच्छ्रुताद्वाक्यात् मन्दप्रतीतं वाक्यार्थं आवर्तयन्तः तत्तदाभासव्युदासेन सम्यक्प्रतिपद्यमानाः । अपि च ‘तत्त्वमसि’ इत्येतद्वाक्यं त्वंपदार्थस्य तत्पदार्थभावमाचष्टे । तत्पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणमभिधीयते — ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) ‘अदृष्टं द्रष्टृ’ (बृ. उ. ३ । ८ । ११) ‘अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) ‘अजमजरममरम्’ ‘अस्थूलमनण्वह्रस्वमदीर्घम्’ इत्यादिशास्त्रप्रसिद्धम् । तत्र अजादिशब्दैर्जन्मादयो भावविकारा निवर्तिताः; अस्थूलादिशब्दैश्च स्थौल्यादयो द्रव्यधर्माः; विज्ञानादिशब्दैश्च चैतन्यप्रकाशात्मकत्वमुक्तम् । एष व्यावृत्तसर्वसंसारधर्मकोऽनुभवात्मको ब्रह्मसंज्ञकस्तत्पदार्थो वेदान्ताभियुक्तानां प्रसिद्धः । तथा त्वंपदार्थोऽपि प्रत्यगात्मा श्रोता देहादारभ्य प्रत्यगात्मतया सम्भाव्यमानः चैतन्यपर्यन्तत्वेनावधारितः । तत्र येषाम् एतौ पदार्थौ अज्ञानसंशयविपर्ययप्रतिबद्धौ, तेषां ‘तत्त्वमसि’ इत्येतद्वाक्यं स्वार्थे प्रमां नोत्पादयितुं शक्नोति, पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य — इत्यतः, तान्प्रति एष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः । यद्यपि च प्रतिपत्तव्य आत्मा निरंशः, तथापि अध्यारोपितं तस्मिन् बह्वंशत्वं देहेन्द्रियमनोबुद्धिविषयवेदनादिलक्षणम् । तत्र एकेन अवधानेन एकमंशमपोहति, अपरेण अपरम् — इति युज्यते तत्र क्रमवती प्रतिपत्तिः । तत्तु पूर्वरूपमेव आत्मप्रतिपत्तेः । येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धोऽस्ति, ते शक्नुवन्ति सकृदुक्तमेव तत्त्वमसिवाक्यार्थम् अनुभवितुमिति, तान्प्रति आवृत्त्यानर्थक्यमिष्टमेव । सकृदुत्पन्नैव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति, नात्र कश्चिदपि क्रमोऽभ्युपगम्यते । सत्यमेवं युज्येत, यदि कस्यचित् एवं प्रतिपत्तिर्भवेत् । बलवती हि आत्मनो दुःखित्वादिप्रतिपत्तिः । अतो न दुःखित्वाद्यभावं कश्चित्प्रतिपद्यत इति चेत् — न, देहाद्यभिमानवत् दुःखित्वाद्यभिमानस्य मिथ्याभिमानत्वोपपत्तेः । प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा ‘अहं छिद्ये दह्ये’ इति च मिथ्याभिमानो दृष्टः । तथा बाह्यतरेष्वपि पुत्रमित्रादिषु सन्तप्यमानेषु ‘अहमेव सन्तप्ये’ इत्यध्यारोपो दृष्टः । तथा दुःखित्वाद्यभिमानोऽपि स्यात् , देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वाद्दुःखित्वादीनाम् , सुषुप्तादिषु च अननुवृत्तेः । चैतन्यस्य तु सुषुप्तेऽपि अनुवृत्तिमामनन्ति — ‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति’ (बृ. उ. ४ । ३ । २३) इत्यादिना । तस्मात् सर्वदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्येष आत्मानुभवः । न च एवम् आत्मानमनुभवतः किञ्चिदन्यत्कृत्यमवशिष्यते । तथा च श्रुतिः — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इत्यात्मविदः कर्तव्याभावं दर्शयति । स्मृतिरपि — ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’ (भ. गी. ३ । १७) इति । यस्य तु न एषोऽनुभवो द्रागिव जायते, तं प्रति अनुभवार्थ एव आवृत्त्यभ्युपगमः । तत्रापि न तत्त्वमसिवाक्यार्थात् प्रच्याव्य आवृत्तौ प्रवर्तयेत् । न हि वरघाताय कन्यामुद्वाहयन्ति । नियुक्तस्य च ‘अस्मिन्नधिकृतोऽहं कर्ता मयेदं कर्तव्यम्’ इत्यवश्यं ब्रह्मप्रत्ययाद्विपरीतप्रत्यय उत्पद्यते । यस्तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् , तस्य एतस्मिन्नेव वाक्यार्थे स्थिरीकार आवृत्त्यादिवाचोयुक्त्या अभ्युपेयते । तस्मात् परब्रह्मविषयेऽपि प्रत्यये तदुपायोपदेशेष्वावृत्तिसिद्धिः ॥ २ ॥

द्विविधो ह्यधिकारी स्यात्कश्चिज्जन्मान्तराभ्यासान्निरस्तसमस्तासम्भावनादिप्रतिबन्धः कश्चित्तु प्रतिबन्धवानिति । तत्राद्यं प्रत्यावृत्तेरानर्थक्यमिष्टम् , द्वितीयस्य तु प्रतिबन्धनिरासाय तदपेक्षेति समाधत्ते -

अत्रोच्यत इति ।

आवृत्तेः प्रतिबन्धानिरासार्थत्वे लिङ्गमाह -

तथा हीति ।

यथा षड्जादिस्वरभेदसाक्षात्कारशक्तमपि श्रोत्रमभ्यासमपेक्षते तथा ब्रह्मात्मसाक्षात्कारशक्तं वाक्यं तदपेक्षमित्यनुभवमाश्रित्याह -

न हि दृष्टेऽनुपपन्नं नामेति ।

तत्त्वम्पदलक्ष्यार्थस्य दुर्बोधत्वादज्ञानप्रयुक्तसंशयादिप्रतिबन्धसम्भवात्तद्ध्वंसायावृत्तिरेष्टव्येति वाच्यलक्ष्यविवेकपूर्वकमाह -

अपि चेत्यादिना ।

यदुक्तमनंशत्वात्प्रमेयस्यावृत्त्यानर्थक्यमिति, तत्राह -

यद्यपीति ।

आरोपितांशनिरासाय न मे देहो नेन्द्रियमित्यभ्यासो युक्त इत्यर्थः ।

वाक्यार्थज्ञाने सति कथमभ्यासनियमः, प्रमाणज्ञानस्याभ्यासायोगाज्ज्ञानिनः श्रवणादिनियमायोगाच्चेत्यत आह -

तत्त्विति ।

ज्ञानात्प्रागेव श्रवणादिव्यापारनियमनं क्रियत इत्यर्थः ।

अधिकं शङ्कितुमुक्तमनुवदति -

येषामिति ।

अधिकं शङ्कते -

सत्यमिति ।

दुःखित्वप्रत्यक्षविरोधाद्वाक्यादैक्यधीर्नोदेतीत्यर्थः ।

प्रत्यक्षस्य भ्रान्तित्वादविरोध इत्याह -

नेत्यादिना ।

दुःखादयो नात्मधर्माः दृश्यत्वाद्देहादिवत्, नाप्यात्मस्वरूपाः आत्मनि सत्यप्यननुवृत्तित्वाद्व्यतिरेकेण चैतन्यवदित्यर्थः ।

निर्दुःखे चिदात्मनि दुःखादिधियो भ्रान्तित्वाद्वाक्यार्थानुभवो न विरुध्यत इत्याह -

तस्मादिति ।

अनुभवे जातेऽप्यावृत्त्याद्यनुष्ठानं किं न स्यादित्यत आह -

न चैवमिति ।

रतिः कामः आत्मकामतया तृप्तिर्विषयतृष्णाक्षयः तेन सन्तोषे आत्मानन्दानुभव इति भेदः ।

नन्वावृत्तौ नियोगात्प्रवृत्तिर्वाच्या तथा च नियुक्तत्वबुद्धेरकर्त्रात्मधीर्न स्यादित्यत आह -

तत्रापीति ।

आवृत्त्यभ्युपगमेऽप्यकर्ताहमित्यनुभवात्प्रच्याव्य गुरुरन्यो वा नियोगान्न प्रवर्तयेदुक्तदोषादित्यर्थः ।

कथं तर्हि प्रवृत्तिरित्यत आह -

यस्त्विति ।

अप्रतिभानादसम्भावनादिनेत्यर्थः । शिष्यबुद्ध्यनुसारेण त्रोतव्यादिवचोभिः प्रधानसिद्ध्यर्थमावृत्त्यादौ प्रवर्तयेदित्यर्थः ॥२॥