ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
यः शास्त्रोक्तविशेषणः परमात्मा, स किम् अहमिति ग्रहीतव्यः, किं वा मदन्य इति — एतद्विचारयति । कथं पुनरात्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति, उच्यते — अयमात्मशब्दो मुख्यः शक्यतेऽभ्युपगन्तुम् , सति जीवेश्वरयोरभेदसम्भवे । इतरथा तु गौणोऽयमभ्युपगन्तव्यः — इति मन्यते । किं तावत्प्राप्तम् ? न अहमिति ग्राह्यः । न हि अपहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते ग्रहीतुम् , विपरीतगुणो वा अपहतपाप्मत्वादिगुणत्वेन । अपहतपाप्मत्वादिगुणश्च परमेश्वरः, तद्विपरीतगुणस्तु शारीरः । ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङ्गः । ततः शास्त्रानर्थक्यम् । संसारिणोऽपि ईश्वरात्मत्वे अधिकार्यभावाच्छास्त्रानर्थक्यमेव, प्रत्यक्षादिविरोधश्च । अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात् कर्तव्यम् — प्रतिमादिष्विव विष्ण्वादिदर्शनम् इति चेत् — काममेवं भवतु । न तु संसारिणो मुख्य आत्मा ईश्वर इत्येतत् नः प्रापयितव्यम् ॥

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।

पूर्वत्र ध्यानादेरावृत्तिरुक्ता तामुपजीव्य तत्त्वज्ञानार्थं ध्यानावृत्तिकाले किमहं ब्रह्मेति ध्यातव्यमुत मत्स्वामीश्वर इत्यैक्यभेदमानाभ्यां संशयमाह -

य इति ।

शब्दादेव प्रमित इत्यादावयमात्मा ब्रह्मेत्याद्यभेदश्रुतिभिरैक्यनिर्णयात्संशयमाक्षिपति -

कथमिति ।

भेदश्रुत्यनुग्रहाद्भेदप्रत्यक्षादिप्राबल्यमालम्ब्य संशय इत्याह -

उच्यत इति ।

अभेदश्रुतीनां गौणत्वमुख्यत्वे उभयत्र फलम् , यद्यप्ययं प्रत्यक्षादिविरोधपरिहारो द्वितीयाध्यायसङ्गतस्तथाप्यैक्यश्रुतेरविरुद्धत्वनिश्चयस्य समाधावन्तरङ्गत्वादिह सङ्गतिः ।

विरुद्धयोरैक्यदृष्टिरसिद्धेत्याह -

नाहमिति ।

किञ्च किमीश्वरस्य जीवमात्रत्वमैक्यं जीवस्येश्वरमात्रत्वं वेति विकल्प्य क्रमेण दूषयति -

ईश्वरस्य चेत्यादिना ।

एकत्वश्रुतिप्रामाण्यायैक्यध्यानं कार्यमिति शङ्कते -

अन्यत्वेऽपीति ।

एकत्वध्यानमस्मदिष्टमेव ।

एकत्वं तु नास्तीत्याह -

काममिति ।