आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।
पूर्वत्र ध्यानादेरावृत्तिरुक्ता तामुपजीव्य तत्त्वज्ञानार्थं ध्यानावृत्तिकाले किमहं ब्रह्मेति ध्यातव्यमुत मत्स्वामीश्वर इत्यैक्यभेदमानाभ्यां संशयमाह -
य इति ।
शब्दादेव प्रमित इत्यादावयमात्मा ब्रह्मेत्याद्यभेदश्रुतिभिरैक्यनिर्णयात्संशयमाक्षिपति -
कथमिति ।
भेदश्रुत्यनुग्रहाद्भेदप्रत्यक्षादिप्राबल्यमालम्ब्य संशय इत्याह -
उच्यत इति ।
अभेदश्रुतीनां गौणत्वमुख्यत्वे उभयत्र फलम् , यद्यप्ययं प्रत्यक्षादिविरोधपरिहारो द्वितीयाध्यायसङ्गतस्तथाप्यैक्यश्रुतेरविरुद्धत्वनिश्चयस्य समाधावन्तरङ्गत्वादिह सङ्गतिः ।
विरुद्धयोरैक्यदृष्टिरसिद्धेत्याह -
नाहमिति ।
किञ्च किमीश्वरस्य जीवमात्रत्वमैक्यं जीवस्येश्वरमात्रत्वं वेति विकल्प्य क्रमेण दूषयति -
ईश्वरस्य चेत्यादिना ।
एकत्वश्रुतिप्रामाण्यायैक्यध्यानं कार्यमिति शङ्कते -
अन्यत्वेऽपीति ।
एकत्वध्यानमस्मदिष्टमेव ।
एकत्वं तु नास्तीत्याह -
काममिति ।