आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
एवं प्राप्ते, ब्रूमः — आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथा हि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैव एतमुपगच्छन्ति — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि भगवो देवते’ इति; तथा अन्येऽपि ‘अहं ब्रह्मास्मि’ इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति च आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानि — ‘एष त आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) ‘एष त आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ३) ‘तत्सत्यꣳ स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येवमादीनि । यदुक्तम् — प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति, तदयुक्तम् । गौणत्वप्रसङ्गात् , वाक्यवैरूप्याच्च। यत्र हि प्रतीकदृष्टिरभिप्रेयते, सकृदेव तत्र वचनं भवति — यथा ‘मनो ब्रह्म’ (छा. उ. ३ । १८ । १) ‘आदित्यो ब्रह्म’ (छा. उ. ३ । १९ । १) इत्यादि । इह पुनः — त्वम् अहमस्मि, अहं च त्वमसीत्याह । अतः प्रतीकश्रुतिवैरूप्यात् अभेदप्रतिपत्तिः । भेददृष्ट्यपवादाच्च; तथा हि — ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २ । ४ । ६) इत्येवमाद्या भूयसी श्रुतिः भेददर्शनमपवदति । यत्तूक्तम् — न विरुद्धगुणयोरन्योन्यात्मत्वसम्भव इति, नायं दोषः, विरुद्धगुणताया मिथ्यात्वोपपत्तेः । यत्पुनरुक्तम् — ईश्वराभावप्रसङ्ग इति, तदसत् , शास्त्रप्रामाण्यात् अनभ्युपगमाच्च । न हि ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छामः — किं तर्हि ? संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपिपादयिषितमिति । एवं च सति अद्वैतेश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्येति व्यवतिष्ठते । यदप्युक्तम् — अधिकार्यभावः प्रत्यक्षादिविरोधश्चेति, तदप्यसत् , प्राक्प्रबोधात् संसारित्वाभ्युपगमात् , तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति । प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् , न, इष्टत्वात् । ‘अत्र पिताऽपिता भवति’ (बृ. उ. ४ । ३ । २२) इत्युपक्रम्य, ‘वेदा अवेदाः’ (बृ. उ. ४ । ३ । २२) इति वचनात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधे । कस्य पुनरयम् अप्रबोध इति चेत् , यस्त्वं पृच्छसि तस्य ते, इति वदामः । ननु अहमीश्वर एवोक्तः श्रुत्या — यद्येवं प्रतिबुद्धोऽसि, नास्ति कस्यचिदप्रबोधः । योऽपि दोषश्चोद्यते कैश्चित् — अविद्यया किल आत्मनः सद्वितीयत्वात् अद्वैतानुपपत्तिरिति, सोऽपि एतेन प्रत्युक्तः । तस्मात् आत्मेत्येव ईश्वरे मनो दधीत ॥ ३ ॥