ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
न प्रतीके न हि सः ॥ ४ ॥
‘मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेति’ (छा. उ. ३ । १८ । १) तथा ‘आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) ‘स यो नाम ब्रह्मेत्युपास्ते’ (छा. उ. ७ । १ । ५) इत्येवमादिषु प्रतीकोपासनेषु संशयः — किं तेष्वपि आत्मग्रहः कर्तव्यः, न वेति । किं तावत्प्राप्तम् ? तेष्वपि आत्मग्रह एव युक्तः कर्तुम् । कस्मात् ? ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् , प्रतीकानामपि ब्रह्मविकारत्वाद्ब्रह्मत्वे सति आत्मत्वोपपत्तेरित्येवं प्राप्ते ब्रूमः — न प्रतीकेष्वात्ममतिं बध्नीयात् । न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेन आकलयेत् । यत्पुनः ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्च आत्मत्वमिति, तदसत् , प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेव आश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा ? न च ब्रह्मण आत्मत्वात् ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या, कर्तृत्वाद्यनिराकरणात् । कर्तृत्वादिसर्वसंसारधर्मनिराकरणेन हि ब्रह्मण आत्मत्वोपदेशः । तदनिराकरणेन च उपासनविधानम् । अतश्च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो नोपपद्यते । न हि रुचकस्वस्तिकयोः इतरेतरात्मत्वमस्ति । सुवर्णात्मनेव तु ब्रह्मात्मना एकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न प्रतीकेष्वात्मदृष्टिः क्रियते ॥ ४ ॥

न प्रतीके न हि सः ।

उभयथा ध्यानसम्भवात्संशयः । यथा ब्रह्मण्यभेदसत्तवादहङ्ग्रह उक्त एवं प्रतीकेष्वपि ब्रह्मविकारतया जीवाभिन्नब्रह्माभिन्नत्वाज्जीवाभेदसत्त्वेनाहङ्ग्रहः कार्य इति दृष्टान्तेन पूर्वपक्षः । अत्र प्रतीकोपास्तीनामहङ्ग्रहोपास्तिभिरविशेषः । सिद्धान्ते तु विशेषसिद्धिरिति फलम् । एतदारभ्याधिकरणत्रयस्य प्रासङ्गिकी पादसङ्गतिः, ब्रह्मैक्यध्यानप्रसङ्गागतत्वादिति विवेकः ।

किं प्रतीकेष्वात्मत्वानुभवबलादहङ्ग्रह उत वस्तुतो जीवाभेदसत्त्वात् । नाद्य इत्याह -

न हि स इति ।

नानुभवतीत्यर्थः ।

द्वितीयमप्यसिद्ध्या दूषयति -

यत्पुनरिति ।

विकारस्य ब्रह्मणा स्वरूपैक्यायोगाद्बाधेनैक्यं वाच्यं प्रतीकबाधे चोपास्तिविधिर्न स्यादित्यर्थः ।

किञ्च कर्तृत्वाद्यबाधेनोपास्तिविधिप्रवृत्तिर्वाच्या बाधे तदयोगात् । तथा च बाधमूलब्रह्मैक्यज्ञानं द्वारीकृत्य प्रतीकेष्वहङ्ग्रहोपास्तिकल्पना न युक्ता, बाधविरोधादित्याह -

न च ब्रह्मण इति ।

अतो जीवप्रतीकयोः स्वरूपभेदादहङ्ग्रहे विध्यश्रवणाच्च नाहङ्ग्रह इति फलितमाह -

अतश्चेति ।

यथा रुचकस्वस्तिकयोः सुवर्णात्मनैक्येऽपि मिथो नैक्यं तथा जीवप्रतीकयोः ब्रह्मात्मनैक्येऽपि भेदः समः । यदि च धर्मिव्यतिरेकेण तयोरभावनिश्चयाद्वस्त्वैक्यं तदोपासनोच्छेद उक्त इत्यर्थः ॥४॥