ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
ब्रह्मदृष्टिरेव आदित्यादिषु स्यादिति । कस्मात् ? उत्कर्षात् । एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति, उत्कृष्टदृष्टेस्तेष्वध्यासात् । तथा च लौकिको न्यायोऽनुगतो भवति । उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिको न्यायः — यथा राजदृष्टिः क्षत्तरि । स च अनुसर्तव्यः विपर्यये प्रत्यवायप्रसङ्गात् । न हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात् । ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवायप्रसङ्गः, न च लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति ; अत्रोच्यते — निर्धारिते शास्त्रार्थे एतदेवं स्यात् । सन्दिग्धे तु तस्मिन् तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते । तेन च उत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्यमाणे, निकृष्टदृष्टिमध्यस्यन्प्रत्यवेयादिति श्लिष्यते । प्राथम्याच्च आदित्यादिशब्दानां मुख्यार्थत्वम् अविरोधात् ग्रहीतव्यम् । तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ, पश्चादवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्यासम्भवात् , ब्रह्मदृष्टिविधानार्थतैव अवतिष्ठते । इतिपरत्वादपि ब्रह्मशब्दस्य एष एवार्थो न्याय्यः । तथा हि — ‘ब्रह्मेत्यादेशः’ ‘ब्रह्मेत्युपासीत’ ‘ब्रह्मेत्युपास्ते’ इति च सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति, शुद्धांस्तु आदित्यादिशब्दान् । ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र, शुक्तिवचन एव शुक्तिकाशब्दः, रजतशब्दस्तु रजतप्रतीतिलक्षणार्थः — प्रत्येत्येव हि केवलं रजतमिति, न तु तत्र रजतमस्ति — एवमत्रापि आदित्यादीन्ब्रह्मेति प्रतीयादिति गम्यते । वाक्यशेषोऽपि च द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान्दर्शयति — ‘स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते’ (छा. उ. ३ । १९ । ४) ‘यो वाचं ब्रह्मेत्युपास्ते’ (छा. उ. ७ । २ । २) ‘यः सङ्कल्पं ब्रह्मेत्युपास्ते’ (छा. उ. ७ । ४ । ३) इति च । यत्तूक्तम् — ब्रह्मोपासनमेवात्र आदरणीयं फलवत्त्वायेति, तदयुक्तम् , उक्तेन न्यायेन आदित्यादीनामेव उपास्यत्वावगमात् । फलं तु अतिथ्याद्युपासन इव आदित्याद्युपासनेऽपि ब्रह्मैव दास्यति, सर्वाध्यक्षत्वात् । वर्णितं चैतत् ‘फलमत उपपत्तेः’ (ब्र. सू. ३ । २ । ३८) इत्यत्र । ईदृशं च अत्र ब्रह्मण उपास्यत्वम् , यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणम् — प्रतिमादिष्विव विष्ण्वादीनाम् ॥ ५ ॥