ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
‘य एवासौ तपति तमुद्गीथमुपासीत’ (छा. उ. १ । ३ । १) ‘लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) ‘वाचि सप्तविधꣳ सामोपासीत’ (छा. उ. २ । ८ । १) ‘इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्येवमादिषु अङ्गावबद्धेषूपासनेषु संशयः — किमादित्यादिषु उद्गीथादिदृष्टयो विधीयन्ते, किं वा उद्गीथादिष्वेव आदित्यादिदृष्टय इति । तत्र अनियमः, नियमकारणाभावात् — इति प्राप्तम् । न हि अत्र ब्रह्मण इव कस्यचिदुत्कर्षविशेषोऽवधार्यते । ब्रह्म हि समस्तजगत्कारणत्वात् अपहतपाप्मत्वादिगुणयोगाच्च आदित्यादिभ्य उत्कृष्टमिति शक्यमवधारयितुम् । न तु आदित्योद्गीथादीनां विकारत्वाविशेषात् किञ्चिदुत्कर्षविशेषावधारणे कारणमस्ति । अथवा नियमेनैव उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् । कस्मात् ? कर्मात्मकत्वादुद्गीथादीनाम् , कर्मणश्च फलप्राप्तिप्रसिद्धेः । उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्ति । तथा च ‘इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्यत्र ‘तदेतदेतस्यामृच्यध्यूढं साम’ (छा. उ. १ । ६ । १) इति ऋक्शब्देन पृथिवीं निर्दिशति, सामशब्देनाग्निम् । तच्च पृथिव्यग्न्योः ऋक्सामदृष्टिचिकीर्षायामवकल्पते, न ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षायाम् । क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते, न राजनि क्षत्तृशब्दः । अपि च ‘लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) इति अधिकरणनिर्देशात् लोकेषु साम अध्यसितव्यमिति प्रतीयते । ‘एतद्गायत्रं प्राणेषु प्रोतम्’ (छा. उ. २ । ११ । १) इति च एतदेव दर्शयति । प्रथमनिर्दिष्टेषु च आदित्यादिषु चरमनिर्दिष्टं ब्रह्माध्यस्तम् — ‘आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इत्यादिषु । प्रथमनिर्दिष्टाश्च पृथिव्यादयः, चरमनिर्दिष्टा हिंकारादयः — ‘पृथिवी हिंकारः’ (छा. उ. २ । २ । १) इत्यादिश्रुतिषु । अतः अनङ्गेष्वादित्यादिषु अङ्गमतिक्षेप इत्येवं प्राप्ते ब्रूमः —

आदित्यादि ।

पृथिव्यग्न्यन्तरीक्षादित्यद्युसंज्ञेषु लोकेषु हिङ्कारप्रस्तावोद्गीथप्रतीहारनिधनैरंशैः पञ्चांशम् , साम, तैरेवादिरिति उपद्रव इति च भक्तिद्वयाधिकैः सप्तांशं सामेति भेदः । अत विशेषाज्ञानात्संशयः ।

पूर्ववदुत्कर्षानवधारणादनियम इति प्रत्युदाहरणेन पूर्वपक्षमाह -

तत्रेति ।

सिद्धरूपादित्यादिभ्यः कर्मरूपोद्गीथादीनां फलसन्निकर्षेणोत्कर्षाद्ब्रह्मवद्विशेषणत्वे नियम इति दृष्टान्तेन मुख्यं पूर्वपक्षमाह -

अथवेति ।

तत्तत्पक्षसिद्धिरेव पूर्वोत्तरपक्षफलं मन्तव्यम् ।

किञ्चानङ्गेष्वेवाङ्गदृष्टिरित्यत्र तेष्वङ्गवाचिपदप्रयोगं लिङ्गमाह -

तथा चेयमेवेति ।

तदेतदग्न्याख्यं साम एतस्यां पृथिवीरूपायामृच्यध्यूढमुपरिस्थितमित्यर्थः ।

ऋचि सामवत्पृथिव्यामग्निर्दृश्यते, अतः साम्यात्पृथिव्येवर्गग्निः सामेति ध्यानं विहितम् , तत्र यदि ऋक्सामात्मकयोः कर्माङ्गयोः पृथिव्यग्निदृष्ठिः स्यात्, तदा पृथिव्यग्न्योरृक्सामपदप्रयोगो न स्यादित्यत्र दृष्टान्तमाह -

क्षत्तरीति ।

अतः प्रयोगान्यथानुपपत्त्या पृथिव्यग्न्योरृक्सामदृष्टिरित्यर्थः ।

विषयसप्तम्या चैवमेवेत्याह -

अपि चेति ।

गायत्रसंज्ञं साम ।

किञ्च पूर्वाधिकरणसिद्धान्तन्यायेनाप्येवमित्याह -

प्रथमेति ।

अनङ्गबुद्ध्याङ्गान्युपास्यानीति सिद्धान्तयति -

एवमिति ।

उपास्तीनां हि कर्मसमृद्धिः फलं श्रूयते, सा च ताभिरङ्गेषु संस्क्रियमाणेषूपपद्यते, अङ्गानां समृद्ध्यनुकूलप्रकृतकर्मापूर्वजनकत्वादित्यर्थः ।