ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन् । कुतः ? उपपत्तेः । उपपद्यते हि एवम् अपूर्वसन्निकर्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिः । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति च विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयति । भवतु कर्मसमृद्धिफलेष्वेवम्; स्वतन्त्रफलेषु तु कथं ‘य एतदेवं विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते’ (छा. उ. २ । २ । ३) इत्यादिषु ? तेष्वपि अधिकृताधिकारात् प्रकृतापूर्वसन्निकर्षेणैव फलकल्पना युक्ता, गोदोहनादिनियमवत् । फलात्मकत्वाच्च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्यः उत्कर्षोपपत्तिः । आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषु । अपि च ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) ‘खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति’ (छा. उ. १ । १ । १०) इति च उद्गीथमेव उपास्यत्वेनोपक्रम्य, आदित्यादिमतीर्विदधाति । यत्तूक्तम् — उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्तीति, तदयुक्तम् ; स्वयमेवोपासनस्य कर्मत्वात् फलवत्त्वोपपत्तेः । आदित्यादिभावेनापि च दृश्यमानानामुद्गीथादीनां कर्मात्मकत्वानपायात् । ‘तदेतदेतस्यामृच्यध्यूढꣳ साम’ (छा. उ. १ । ६ । १) इति तु लाक्षणिक एव पृथिव्यग्न्योः ऋक्सामशब्दप्रयोगः । लक्षणा च यथासम्भवं सन्निकृष्टेन विप्रकृष्टेन वा स्वार्थसम्बन्धेन प्रवर्तते । तत्र यद्यपि ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षा, तथापि प्रसिद्धयोः ऋक्सामयोर्भेदेनानुकीर्तनात् , पृथिव्यग्न्योश्च सन्निधानात् , तयोरेव एष ऋक्सामशब्दप्रयोगः ऋक्सामसम्बन्धादिति निश्चीयते । क्षत्तृशब्दोऽपि हि कुतश्चित्कारणाद्राजानमुपसर्पन् न निवारयितुं पार्यते । ‘इयमेवर्क्’ (छा. उ. १ । ६ । १) इति च यथाक्षरन्यासम् ऋच एव पृथिवीत्वमवधारयति । पृथिव्या हि ऋक्त्वेऽवधार्यमाणे — इयमृगेवेत्यक्षरन्यासः स्यात् । ‘य एवं विद्वान्साम गायति’ (छा. उ. १ । ७ । ९) इति च अङ्गाश्रयमेव विज्ञानमुपसंहरति, न पृथिव्याद्याश्रयम् । तथा ‘लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) इति यद्यपि सप्तमीनिर्दिष्टा लोकाः, तथापि साम्न्येव ते अध्यस्येरन् , द्वितीयानिर्देशेन साम्न उपास्यत्वावगमात् । सामनि हि लोकेष्वध्यस्यमानेषु साम लोकात्मनोपासितं भवति, अन्यथा पुनः लोकाः सामात्मना उपासिताः स्युः । एतेन ‘एतद्गायत्रं प्राणेषु प्रोतम्’ (छा. उ. २ । ११ । १) इत्यादि व्याख्यातम् । यत्रापि तुल्यो द्वितीयानिर्देशः ‘अथ खल्वमुमादित्यꣳ सप्तविधꣳ सामोपासीत’ (छा. उ. २ । ९ । १) इति, तत्रापि — ‘समस्तस्य खलु साम्न उपासनꣳ साधु’ (छा. उ. २ । १ । १) ‘इति तु पञ्चविधस्य’ (छा. उ. २ । ७ । २) ‘अथ सप्तविधस्य’ (छा. उ. २ । ८ । १) इति च साम्न एव उपास्यत्वोपक्रमात् तस्मिन्नेव आदित्याद्यध्यासः । एतस्मादेव च साम्न उपास्यत्वावगमात् ‘पृथिवी हिंकारः’ (छा. उ. २ । २ । १) इत्यादिनिर्देशविपर्ययेऽपि हिंकारादिष्वेव पृथिव्यादिदृष्टिः । तस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गेषूद्गीथादिषु क्षिप्येरन्निति सिद्धम् ॥ ६ ॥

ननु यत्रोपास्तीनां प्रकृतकर्मापूर्वसन्निकृष्टाङ्गद्वारापेक्षं फलं श्रुतं तत्र फलोपपत्तयेऽङ्गानामुपास्यत्वं भवतु तदनपेक्षलोकादिफलेषु तूपासनेषु कथमुपास्यविवेक इति शङ्कते -

भवत्विति ।

यथा स्वतन्त्रपशुफलस्यापि गोदोहनस्य अङ्गद्वारापेक्षयैव फलमिष्टं तद्वल्लोकादिफलेषूपासनेष्वपि कर्मापूर्वाङ्गद्वारैव फलकल्पना युक्ता, कर्माधिकृतस्यैवाङ्गाश्रितोपासनेष्वधिकारात्, अतोऽङ्गानामेवोपास्यत्वमिति समाधत्ते -

तेष्वपीति ।

उत्कर्षानवधारणादनियम इत्युक्तं निरस्यति -

फलात्मेति ।

उपक्रमबलाच्चाङ्गमुपास्यमित्याह -

अपि चेति ।

रसतमत्वादिगुणाद्युपसङ्ख्यानमित्यर्थः ।

द्वितीयं पूर्वपक्षं दूषयति -

यत्तूक्तमित्यादिना ।

कर्मभूयं कर्मात्मकत्वं प्राप्येत्यर्थः ।

सिद्धादित्याद्यात्मना कर्मणां दृष्टौ कर्मत्वहानिः स्यादित्यत आह -

आदित्यादिभावेनेति ।

माणवकेऽग्निदृष्टिवदुद्गीथादिष्वादित्यादिधियां गौणत्वान्न कर्मत्वाभिभावकत्वमित्यङ्गेष्वनङ्गत्वधीरविरुद्धेत्याशयः ।

प्रयोगानुपपत्तिमुक्तां निरस्यति -

तदेतदिति ।

लक्षणाबीजं सम्बन्धमाह -

लक्षणा चेति ।

गङ्गायां घोष इत्यत्र सन्निकृष्टसंयोगसम्बन्धेन तीरलक्षणा, अग्निर्माणवक इत्यत्राग्निनिष्ठशुचित्वादिगुणवत्त्वरूपपरम्परासम्बन्धेन लक्षणा दृष्टा, तथा चात्र ऋक्सामयोः पृथिव्याग्निदृष्टिपक्षेऽपि ऋक्सामपदाभ्यां स्ववाच्यार्थे द्रष्टव्यताख्यपरम्परासम्बन्धेन पृथिव्यग्निलक्षणा युक्तेत्यर्थः ।

ननु प्रतीकवाचिपदस्य ध्येये अर्थे लक्षणा न युक्ता, क्षतृपदस्य राजन्यप्रयोगादिति शङ्कते -

तत्र यद्यपीति ।

तथापि ऋक्सामसम्बन्धात्पृथिव्यग्न्योरेवैतस्यामृच्यध्यूढं सामेति एष ऋक्सामपदप्रयोगः इत्यन्वयः ।

ननु मुख्यार्थ एव न कुतो गृह्यते, तत्राह -

प्रसिद्धयोरिति ।

तस्मात् ऋच्यध्यूढं सामेति मुख्ययोः पृथगुक्तेस्तदेतस्यामित्यत्रापि तयोर्ग्रहे पुनरुक्तिः स्यात्, अतः प्रतीकाभेददृष्ट्या पृथिव्यग्न्योः प्रतीकसन्निधानात्तयोरेव प्रतीकपदप्रयोगः कृतस्तदभेददार्ढ्यायेत्यर्थः ।

तर्हि क्षत्तृशब्दोऽपि राजनि स्यादित्यत आह -

क्षत्रिति ।

स्थितप्रयोगस्य निमित्तं किमपि वाच्यं न तु निमित्तमस्तीति प्रयोग आपाद्य इति भावः । क्षत्ता सूतः, तस्य कार्यं रथचर्यादि यदा राजेव करोति तदा क्षत्तृशब्दो राजन्यप्यस्तीत्यक्षरार्थः ।

ऋगादावेव पृथिव्यादिदृष्टिरित्यत्र हेत्वन्तरमाह -

इयमिति ।

सप्तम्या लोकानामुपास्यत्वमुक्तं निरस्यति -

तथा लोकेष्विति ।

सामात्मना लोकानुपासीतेति द्वितीयासप्तम्योर्भङ्गस्त्वया कार्यस्ततो वरं लोकात्मना सामोपासीतेति सप्तमीमात्रभङ्ग इत्यर्थः । एतेनेति एकविभक्तिभङ्गलाघवेन प्राणात्मना गायत्रं सामोपास्यमिति व्याख्यातमित्यर्थः ।

ननु विभक्तिसाम्ये कथं निर्णयस्तत्राह -

यत्रापीति ।

'साम्न उपासनं साधु' इत्युपक्रम्य पृथिवी हिङ्गार इत्यादिना हिङ्गारादिपञ्चावयवस्य साम्न उपासनमुक्त्वा 'इति तु पञ्चविधस्योपासनम्' इत्युपसंहृत्य, अथेति सप्तविधस्य साम्न उपासनं प्रक्रम्य प्रपञ्चितमतः साम्न एवोपास्यत्वमित्यर्थः ।

यदुक्तं प्राथम्यात्पृथिव्यादेरूपास्यत्वमिति, तत्राह -

एतस्मादेवेति ।

यद्यपि हिङ्कारोद्देशेन पृथिवीत्वविधेरुद्देश्यस्य प्रथमनिर्देशो वाच्यस्तथाप्युक्तन्यायबलाद्व्यत्ययो ग्राह्य इत्यर्थः ॥६॥