मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
स्मरन्ति च ॥ १० ॥
स्मरन्त्यपि च शिष्टा उपासनाङ्गत्वेन आसनम् — ‘शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः’ (भ. गी. ६ । ११) इत्यादिना । अत एव पद्मकादीनामासनविशेषाणामुपदेशो योगशास्त्रे ॥ १० ॥
स्मरन्ति चेति ॥१०॥
;
बाह्यस्य शारीरस्य चासनस्य स्मरणान्नियम इत्याह -
स्मरन्ति चेति ॥१०॥