यत्रैकाग्रता तत्राविशेषात् ।
तेष्वेवाङ्गानाश्रितोपासनेषु प्राच्यादिदिशि तीर्थादिदेशे प्रदोषादिकाले नियमोऽस्ति न वेत्युभयथासम्भवात्संशयः । एकविषयत्वं सङ्गतिरूपास्तीनां विहितत्वाद्यागादिवदस्ति दिगादिनियम इति पूर्वपक्षः । अत्र दिगादिष्वादरः फलं सिद्धान्ते त्वनादरः । ध्येये चित्तैकाग्र्यस्य प्राधान्यात्प्रधानाक्षिप्तदेशादिग्रहणस्योचितत्वादिविवेकः ।
अर्थलक्षण एवेति ।
ऐकाग्र्यफललिङ्गक एवेत्यर्थः । प्राचीनप्रवणे प्राग्देशे निम्नस्थाने वैश्वदेवं कुर्यादितिवदत्र दिगादिविशेषो न श्रूयते अतोऽनुमानमप्रयोजकमिति भावः ।
विशेषाश्रवणमसिद्धमिति शङ्कते -
ननु विशेषमपीति ।
शर्कराः सूक्ष्मपाषाणाः । जलाश्रयवर्जनं शीतनिवृत्त्यर्थम् । चक्षुःपीडनो मशकः । वाचनिकं समदेशादिनियममङ्गीकृत्य चित्तैकाग्र्यविरुद्धेषु देशादिगतेषु प्राचीनप्रवणत्वादिष्वनादर इति सुहृद्भावेन सूत्रकृदुपदिशति । देशाद्याग्रहे चित्तविक्षेपात्समाधिभङ्गः स्यात्स माभूदिति ॥११॥