आप्रायणात् ।
व्यवहितेनास्य सम्बन्धमाह -
आवृत्तिरिति ।
अनियोज्ये ब्रह्मण्यात्मत्वप्रतिपत्तिर्यस्य तस्य विदुष इत्यर्थः ।
अहङ्ग्रहोपासनेष्वनुष्ठानस्योभयथादृष्टेः संशयमाह -
यानि पुनरिति ।
यथा दिगादिनियमस्याविधेरनादरस्तद्वदामरणमुपास्यावृत्तेरविधानादिनियम इति पूर्वपक्षः ।
मरणपर्यन्तमावृत्तिरिति सिद्धान्तयति -
एवमिति ।
उपास्तीनां कर्मणां चान्त्यकाले प्राप्तव्यफलस्फूर्तिद्वारा फलहेतुत्वे मानमाह -
सविज्ञान इति ।
भावनामयं विज्ञानं फलस्फुरणं तेन सहितः सविज्ञानो विज्ञानस्फुरितफलं विज्ञानमित्यर्थः । यस्मिंल्लोके चित्तं सङ्कल्पोऽस्येति यच्चित्तस्तेन सङ्कल्पितेन लोकेन सह फलस्फूर्त्यनन्तरं मनः प्राणे लीयते इति यावत् । तेज उदानः । आत्मा जीवः । जलौकादृष्टान्तश्रुतेश्च भाविफलस्फूर्तिरस्तीत्यर्थः ।
अस्त्विदमन्त्यफलं विज्ञानं कर्मणामिवादृष्टद्वारोपास्तीनां ततः कुत आमरणमावृत्तिरित्यत आह -
प्रत्ययास्त्विति ।
उपास्तिप्रत्ययानां धारावाहिकतया स्वरूपानिवृत्तिरेवान्त्यं विज्ञानम् , न त्वदृष्टद्वारकमन्यदपेक्षितं सर्वभावानामेव स्वसामानजातीयद्वारानपेक्षतया प्रत्ययानां प्रत्ययान्तरापेक्षायोगात्, कर्मणां तु दृष्टद्वारान्त्यधीफलत्वानुपपत्तेः अदृष्टद्वारकल्पनेति भावः । क्रतुर्ध्यानम् । उपासक एतत्त्रयम् 'अक्षितमसि', 'अच्युतमसि', 'प्राणसंशितमसि' इति मन्त्रत्रयं मरणकालेऽपि स्मरेदित्यर्थः ॥१२॥