ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥
आवृत्तिः सर्वोपासनेष्वादर्तव्येति स्थितमाद्येऽधिकरणे । तत्र यानि तावत् सम्यग्दर्शनार्थान्युपासनानि, तानि अवघातादिवत् कार्यपर्यवसानानीति ज्ञातमेव एषामावृत्तिपरिमाणम् । न हि सम्यग्दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितुं शक्यम् , अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । यानि पुनः अभ्युदयफलानि, तेष्वेषा चिन्ता — किं कियन्तंचित्कालं प्रत्ययमावर्त्य उपरमेत् , उत यावज्जीवमावर्तयेदिति । किं तावत्प्राप्तम् ? कियन्तंचित्कालं प्रत्ययमभ्यस्य उत्सृजेत् , आवृत्तिविशिष्टस्योपासनशब्दार्थस्य कृतत्वादित्येवं प्राप्ते, ब्रूमः — आ प्रायणादेव आवर्तयेत्प्रत्ययम् , अन्त्यप्रत्ययवशाददृष्टफलप्राप्तेः । कर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति — ‘सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति’ ‘यच्चित्तस्तेनैष प्राणमायाति’ ‘प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति’ इति चैवमादिश्रुतिभ्यः । तृणजलूकानिदर्शनाच्च । प्रत्ययास्त्वेते स्वरूपानुवृत्तिं मुक्त्वा किमन्यत् प्रायणकालभावि भावनाविज्ञानमपेक्षेरन् । तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययाः, तेषु आ प्रायणात् आवृत्तिः । तथा च श्रुतिः — ‘स यावत्क्रतुरयमस्माल्लोकात्प्रैति’ इति प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति । स्मृतिरपि — ‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८ । ६) इति, ‘प्रयाणकाले मनसाचलेन’ (भ. गी. ८ । १०) इति च । ‘सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येत’ इति च मरणवेलायामपि कर्तव्यशेषं श्रावयति ॥ १२ ॥

आप्रायणात् ।

व्यवहितेनास्य सम्बन्धमाह -

आवृत्तिरिति ।

अनियोज्ये ब्रह्मण्यात्मत्वप्रतिपत्तिर्यस्य तस्य विदुष इत्यर्थः ।

अहङ्ग्रहोपासनेष्वनुष्ठानस्योभयथादृष्टेः संशयमाह -

यानि पुनरिति ।

यथा दिगादिनियमस्याविधेरनादरस्तद्वदामरणमुपास्यावृत्तेरविधानादिनियम इति पूर्वपक्षः ।

मरणपर्यन्तमावृत्तिरिति सिद्धान्तयति -

एवमिति ।

उपास्तीनां कर्मणां चान्त्यकाले प्राप्तव्यफलस्फूर्तिद्वारा फलहेतुत्वे मानमाह -

सविज्ञान इति ।

भावनामयं विज्ञानं फलस्फुरणं तेन सहितः सविज्ञानो विज्ञानस्फुरितफलं विज्ञानमित्यर्थः । यस्मिंल्लोके चित्तं सङ्कल्पोऽस्येति यच्चित्तस्तेन सङ्कल्पितेन लोकेन सह फलस्फूर्त्यनन्तरं मनः प्राणे लीयते इति यावत् । तेज उदानः । आत्मा जीवः । जलौकादृष्टान्तश्रुतेश्च भाविफलस्फूर्तिरस्तीत्यर्थः ।

अस्त्विदमन्त्यफलं विज्ञानं कर्मणामिवादृष्टद्वारोपास्तीनां ततः कुत आमरणमावृत्तिरित्यत आह -

प्रत्ययास्त्विति ।

उपास्तिप्रत्ययानां धारावाहिकतया स्वरूपानिवृत्तिरेवान्त्यं विज्ञानम् , न त्वदृष्टद्वारकमन्यदपेक्षितं सर्वभावानामेव स्वसामानजातीयद्वारानपेक्षतया प्रत्ययानां प्रत्ययान्तरापेक्षायोगात्, कर्मणां तु दृष्टद्वारान्त्यधीफलत्वानुपपत्तेः अदृष्टद्वारकल्पनेति भावः । क्रतुर्ध्यानम् । उपासक एतत्त्रयम् 'अक्षितमसि', 'अच्युतमसि', 'प्राणसंशितमसि' इति मन्त्रत्रयं मरणकालेऽपि स्मरेदित्यर्थः ॥१२॥