ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
गतस्तृतीयशेषः । अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते । ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते, न क्षीयते वेति संशयः । किं तावत्प्राप्तम् ? फलार्थत्वात्कर्मणः फलमदत्त्वा न सम्भाव्यते क्षयः । फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता । यदि तत् अन्तरेणैव फलोपभोगमपवृज्येत, श्रुतिः कदर्थिता स्यात् । स्मरन्ति च — ‘न हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इति । नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्नोति — नैष दोषः, प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेः गृहदाहेष्ट्यादिवत् । अपि च प्रायश्चित्तानां दोषसंयोगेन विधानाद्भवेदपि दोषक्षपणार्थता । न त्वेवं ब्रह्मविद्यायां विधानमस्ति । नन्वनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् — नेत्युच्यते; देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भविष्यति । तस्मान्न ब्रह्माधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमः —

यथोपासकानां यावज्जीवं कर्तव्यमस्ति न तथात्मविदामिति कर्मक्षयलक्षणां जीवन्मुक्तिमाह -

तदधिगम इति ।

ज्ञानसाधनेषु फलाधिक्यार्थं फलाध्यायेऽपि साधनविचारः कृतः, सम्प्रति फलाध्यायस्था फलचिन्ता क्रियत इत्याह -

गत इति ।

कर्मणां फलान्तत्वशास्त्राज्ज्ञाननाश्यत्वशास्त्राच्च संशयः, पूर्वपक्षे ज्ञानिनोऽपि सञ्चितपापभोगानन्तरं मुक्तिः, सिद्धान्ते तु ज्ञानसमकालं पापनाशाज्जीवन्मुक्तिरिति फलम् । न हिंस्यादित्यादिनिषेधश्रुत्या दुरितादृष्टस्य दुःखदायिनी शक्तिरधिगता । 'नाभुक्तं क्षीयते कर्म' इति च स्मरन्ति । अतः फलान्तमेव पापं न मध्ये नश्यतीति पूर्वपक्षः । ननु तर्हि तन्नाशार्थं प्रायश्चित्तविधिर्न स्यादिति चेत् । न । यथा आहिताग्नेर्गृहदाहे निमित्ते सति 'अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्' इति इष्टिविधिस्तद्वद्दोषे निमित्तमात्रे सति प्रायश्चित्तविधेर्दोषनाशार्थत्वासिद्धेः ।

ननु विषम उपन्यासः, युक्तं गृहदाहस्य सिद्धत्वादयोग्यत्वाच्चाफलतया निमित्तमात्रत्वं दोषवान्प्रायश्चित्तं कुर्यादित्यत्र तु मलिनः स्नायादितिवद्दोषपदस्य निवृत्तिद्वारा फलपरत्वसम्भवात् 'तरति ब्रह्महत्यां योऽश्वमेधेन यजते' इति प्रायश्चित्तात्पापनिवृत्तिश्रुतेश्चायुक्तं प्रायश्चित्तस्य नैमित्तिकत्वमित्यत आह -

अपि चेति ।

ज्ञानस्य दोषनाशार्थतया विधानं नास्ति 'क्षीयन्ते चास्य कर्माणि' इत्यादेर्ज्ञानस्तावकमात्रत्वादित्यर्थः ।

कर्मभोगानन्तरं देशकालान्तरे मोक्षो भविष्यति शास्त्रप्रामाण्यादित्याह -

नेत्युच्यत इति ।

ज्ञानात्कर्मक्षयस्यापूर्वत्वान्मानान्तरविरुद्धत्वाच्च तत्परानेकवाक्यानां स्तावकत्वायोगात्तस्यास्तित्वमिति सिद्धान्तयति -

एवमित्यादिना ।

पापक्रियातोऽपूर्वानुत्पत्तिरश्लेषः ।