ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
तदधिगमे ब्रह्माधिगमे सति उत्तरपूर्वयोरघयोरश्लेषविनाशौ भवतः — उत्तरस्य अश्लेषः, पूर्वस्य विनाशः । कस्मात् ? तद्व्यपदेशात् । तथा हि ब्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्य आगामिनो दुरितस्यानभिसम्बन्धं विदुषो व्यपदिशति — ‘यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’ (छा. उ. ४ । १४ । ३) इति । तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशति — ‘तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इति । अयमपरः कर्मक्षयव्यपदेशो भवति — ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इति । यदुक्तम् — अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यादिति, नैष दोषः । न हि वयं कर्मणः फलदायिनीं शक्तिमवजानीमहे । विद्यत एव सा । सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः । शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते, न प्रतिबन्धाप्रतिबन्धयोरपि । ‘न हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इत्येतदपि स्मरणमौत्सर्गिकम् — न हि भोगादृते कर्म क्षीयते तदर्थत्वादिति । इष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः — ‘सर्वं पाप्मानं तरति, तरति ब्रह्महत्याम् , योऽश्वमेधेन यजते, य उ चैनमेवं वेद’ इत्यादि श्रुतिस्मृतिभ्यः । यत्तूक्तम् — नैमित्तिकानि प्रायश्चित्तानि भविष्यन्तीति, तदसत् , दोषसंयोगेन चोद्यमानानामेषां दोषनिर्घातफलसम्भवे फलान्तरकल्पनानुपपत्तेः । यत्पुनरेतदुक्तम् — न प्रायश्चित्तवत् दोषक्षयोद्देशेन विद्याविधानमस्तीति, अत्र ब्रूमः — सगुणासु तावद्विद्यासु विद्यत एव विधानम् , तासु च वाक्यशेषे ऐश्वर्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते, तयोश्चाविवक्षाकारणं नास्ति — इत्यतः पाप्मप्रहाणपूर्वकैश्वर्यप्राप्तिः तासां फलमिति निश्चीयते । निर्गुणायां तु विद्यायां यद्यपि विधानं नास्ति, तथापि अकर्त्रात्मत्वबोधात्कर्मप्रदाहसिद्धिः । अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति दर्शयति । अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात्कर्तृत्वं प्रतिपेद इव, तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननिवृत्तेः तान्यपि प्रविलीयन्त इत्याह — विनाश इति । पूर्वसिद्धकर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि, नेतः पूर्वमपि कर्ता भोक्ता वा अहमासम् , नेदानीम् , नापि भविष्यत्काले — इति ब्रह्मविदवगच्छति । एवमेव च मोक्ष उपपद्यते । अन्यथा हि अनादिकालप्रवृत्तानां कर्मणां क्षयाभावे मोक्षाभावः स्यात् । न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुमर्हति; अनित्यत्वप्रसङ्गात् , परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य । तस्मात् ब्रह्माधिगमे दुरितक्षय इति स्थितम् ॥ १३ ॥

सगुणब्रह्मविद्यायां व्यपदेशमुक्त्वा निर्गुणायां तमाह -

अयमपर इति ।

परोक्तं दूषयति -

यदुक्तमित्यादिना ।

विधिनिषेधशास्त्रं 'नाभुक्तं क्षीयते' इत्यादि, स्मृतिश्च कर्मणः फलशक्तौ प्रमाणमतः शक्तस्यापि कुतश्चिन्नाशाङ्गीकारेण शास्त्रविरोध इत्यर्थः ।

तत्त्वज्ञानमात्मन्यशेषदुरितनाशकं तन्मूलाध्यासबाधकत्वात्स्वप्नदुरितमूलकर्तृत्वाध्यासबाधकजाग्रद्बोधवदित्याह -

तथाप्यकर्त्रात्मबोधादिति ।

श्रुतार्थमेव युक्त्या द्रढयति -

अश्लेष इति चेति ।

मूलाध्यासानुत्पत्तेः पापस्याश्लेषः, तन्नाशात्तद्विनाश इत्यर्थः ।

अध्यासाभावे विद्वदनुभवमाह -

पूर्वेति ।

मोक्षशास्त्रबलाच्च ज्ञानात्कर्मक्षयसिद्धिरित्याह -

एवमेवेति ।

ज्ञानात्कर्मक्षये सत्येवेत्यर्थः ।

मोक्षस्य कर्मफलसाम्यमुक्तं निरस्यति -

न चेति ॥१३॥