ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥
पूर्वस्मिन्नधिकरणे बन्धहेतोरघस्य स्वाभाविकस्य अश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ । धर्मस्य पुनः शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अविरोध इत्याशङ्क्य तन्निराकरणाय पूर्वाधिकरणन्यायातिदेशः क्रियते — इतरस्यापि पुण्यस्य कर्मणः एवम् अघवत् असंश्लेषो विनाशश्च ज्ञानवतो भवतः ; कुतः ? तस्यापि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् , ‘उभे उ हैवैष एते तरति’ (बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिषु च दुष्कृतवत्सुकृतस्यापि प्रणाशव्यपदेशात् , अकर्त्रात्मत्वबोधनिमित्तस्य च कर्मक्षयस्य सुकृतदुष्कृतयोस्तुल्यत्वात् , ‘क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ९) इति च अविशेषश्रुतेः । यत्रापि केवल एव पाप्मशब्दः पठ्यते, तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यम् , ज्ञानापेक्षया निकृष्टफलत्वात् । अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः — ‘नैनं सेतुमहोरात्रे तरतः’ (छा. उ. ८ । ४ । १) इत्यत्र सह दुष्कृतेन सुकृतमप्यनुक्रम्य, ‘सर्वे पाप्मानोऽतो निवर्तन्ते’ इत्यविशेषेणैव प्रकृते पुण्ये पाप्मशब्दप्रयोगात् । ‘पाते तु’ इति तुशब्दोऽवधारणार्थः । एवं धर्माधर्मयोर्बन्धहेत्वोः विद्यासामर्थ्यादश्लेषविनाशसिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति ॥ १४ ॥

इतरस्यापि तु ।

अतिदेशत्वान्न सङ्गत्याद्यपेक्षा ।

ज्ञानात्पुण्यं क्षीयते न वेति पूर्ववत्सन्देहे ज्ञानं तु न पुण्यनाशकं शास्त्रीयत्वात्पुण्यवदित्यधिकाशङ्कामुक्त्वातिदेशं व्याचष्टे -

धर्मस्येत्यादिना ।

ज्ञानं पुण्यनाशकं समूलविद्याघातित्वादिति न्यायोपेतागमबाधितमनुमानमिति भावः ।

ननु क्षीयन्ते चेत्यविशेषश्रुतिः पापविषया सर्वं पाप्मानं तरतीति विशेषश्रुतेरित्यत आह -

यत्रापि केवल इति ।

पापपुण्यक्षयपराधिकरणद्वयस्य फलमाह -

पाते त्विति ॥१४॥