ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥
पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः । स किमविशेषेण आरब्धकार्ययोरनारब्धकार्ययोश्च भवति, उत विशेषेणानारब्धकार्ययोरेवेति विचार्यते । तत्र ‘उभे उ हैवैष एते तरति’ (बृ. उ. ४ । ४ । २२) इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते, प्रत्याह — अनारब्धकार्ये एव त्विति । अप्रवृत्तफले एव पूर्वे जन्मान्तरसञ्चिते, अस्मिन्नपि च जन्मनि प्राग्ज्ञानोत्पत्तेः सञ्चिते, सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते; न तु आरब्धकार्ये सामिभुक्तफले, याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म निर्मितम् । कुत एतत् ? ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति शरीरपातावधिकरणात्क्षेमप्राप्तेः । इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत । तत्र शरीरपातप्रतीक्षां न आचक्षीत । ननु वस्तुबलेनैव अयमकर्त्रात्मावबोधः कर्माणि क्षपयन् कथं कानिचित्क्षपयेत् कानिचिच्चोपेक्षेत ? न हि समानेऽग्निबीजसम्पर्के केषाञ्चिद्बीजशक्तिः क्षीयते, केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति । उच्यते — न तावदनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते । आश्रिते च तस्मिन्कुलालचक्रवत्प्रवृत्तवेगस्य अन्तराले प्रतिबन्धासम्भवात् भवति वेगक्षयप्रतिपालनम् । अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति । बाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत्संस्कारवशात्कंचित्कालमनुवर्तत एव । अपि च नैवात्र विवदितव्यम् — ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते न वा ध्रियत इति । कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत ? श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते । तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात्क्षय इति निर्णयः ॥ १५ ॥

अनारब्धकार्ये एव तु ।

उक्तकर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह -

पूर्वयोरिति ।

जीवन्मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् ।

पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्राप्तौ उक्तोत्सर्गतः कर्मक्षतिः प्रारब्धान्यकर्मविषयेत्यपवादं सिद्धान्यति -

एवमिति ।

सामिशब्दोऽर्धवाचकः । प्रारब्धाद्यावन्न विमुच्यते तावानेव विलम्बस्तन्मोक्षे ब्रह्म सम्पद्यत इति श्रुत्यर्थः ।

देहपातावधिलिङ्गात्तत्त्वविदां याज्ञवल्क्यादीनां देहधारणश्रुतिस्मृतिलिङ्गाच्च प्रारब्धकर्मणस्तत्त्वज्ञानं प्रति हेतुत्वेनोपजीव्यत्वाच्च प्राबल्यसिद्धेस्तत्प्रतिबद्धं तत्त्वज्ञानं तत्सिद्ध्यर्थमविद्यांशं विक्षेपशक्त्याख्यं विहायावरकाविद्यांशं नाशयतीत्याह -

उच्यते न तावदिति ।

विक्षेपकाविद्यालेश एव तत्संस्कारः ।

शिष्यान्प्रति जीवन्मुक्तौ स्वानुभवमाह -

अपि च नैवेति ॥१५॥