यदविद्यावशाद्विश्वं दृश्यते रशनाहिवत् ।
यद्विद्यया च तद्धानिस्तं वन्दे पुरुषोत्तमम् ॥१॥
नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥
भगवत्पादाब्जद्वन्द्वं द्वन्द्वनिबर्हणम् ।
सुरेश्चरादिसद्भृङ्गैरवलम्बितमाभजे ॥३॥
बृहदारण्यके भाष्ये शिष्योपकृतिसिद्धये ।
सुरेश्वरोक्तिमाश्रित्य क्रियते न्यायनिर्णयः ॥४॥
काण्वोपनिषद्विवरणव्याजेनाशेषामेवोपनिषदं शोधयितुकामो भगवान्भाष्यकारो विघ्नोपशमादिसमर्थं शिष्टाचारप्रमाणकं परापरगुरुनमस्काररूपं मङ्गलमाचरति —
ओं नमो ब्रह्मादिभ्य इति ।
वेदो हिरण्यगर्भो वा ब्रह्म तन्नमस्कारेण सर्वा देवता नमस्कृता भवन्ति तदर्थत्वात्तदात्मकत्वाच्च ‘एष उ ह्येव सर्वे देवाः’(बृ. उ. ३ । ९ । ९) इति श्रुतेः । आदिपदेन परमेष्ठिप्रभृतयो गृह्यन्ते । यद्यपि तेषामुक्तो ब्रह्मान्तर्भावस्तथाऽपि तेष्वनादरनिरासार्थं पृथग्ग्रहणम् । चतुर्थी नमो योगे । नमःशब्दस्त्रिविधप्रह्वीभावविषयः ।
ननु ब्रह्मविद्यां वक्तुकामेन किमित्येते नमस्क्रियन्ते सैव हि वक्तव्येत्यत आह —
ब्रह्मविद्येति ।
एतेषां तत्संप्रदायकर्तृत्वे वंशब्राह्मणं प्रमाणयति —
वंशऋषिभ्य इति ।
यद्यपि तत्र पौतिमाष्यादयो ब्रह्मान्ताः संप्रदायकर्तारः श्रूयन्ते तथाऽपि गुरुशिष्यक्रमेण ब्रह्मणः प्राथम्यमिति तदादित्वमिति भावः ।
संप्रत्यपरगुरून्नमस्करोति —
नमो गुरुभ्य इति ।
यद्यपि ब्रह्मविद्यासंप्रदायकर्त्रन्तर्भावादेते प्रागेव नमस्कृतास्तथाऽपि शिष्याणां गुरुविषयादरातिरेककार्यार्थं पृथग्गुरुनमस्करणं ‘यस्य देवे परा भक्तिः’ (श्वे. उ. ६ । २३) इत्यादिश्रुतेरिति ।