बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
‘उषा वा अश्वस्य’ (बृ. उ. १ । १ । १) इत्येवमाद्या वाजसनेयिब्राह्मणोपनिषत् । तस्या इयमल्पग्रन्था वृत्तिः आरभ्यते, संसारव्याविवृत्सुभ्यः संसारहेतुनिवृत्तिसाधनब्रह्मात्मैकत्वविद्याप्रतिपत्तये । सेयं ब्रह्मविद्या उपनिषच्छब्दवाच्या, तत्पराणां सहेतोः संसारस्यात्यन्तावसादनात् ; उपनिपूर्वस्य सदेस्तदर्थत्वात् । तादर्थ्याद्ग्रन्थोऽप्युपनिषदुच्यते । सेयं षडध्यायी अरण्येऽनूच्यमानत्वादारण्यकम् ; बृहत्त्वात्परिमाणतो बृहदारण्यकम् ॥
‘उषा वा अश्वस्य’ (बृ. उ. १ । १ । १) इत्येवमाद्या वाजसनेयिब्राह्मणोपनिषत् । तस्या इयमल्पग्रन्था वृत्तिः आरभ्यते, संसारव्याविवृत्सुभ्यः संसारहेतुनिवृत्तिसाधनब्रह्मात्मैकत्वविद्याप्रतिपत्तये । सेयं ब्रह्मविद्या उपनिषच्छब्दवाच्या, तत्पराणां सहेतोः संसारस्यात्यन्तावसादनात् ; उपनिपूर्वस्य सदेस्तदर्थत्वात् । तादर्थ्याद्ग्रन्थोऽप्युपनिषदुच्यते । सेयं षडध्यायी अरण्येऽनूच्यमानत्वादारण्यकम् ; बृहत्त्वात्परिमाणतो बृहदारण्यकम् ॥

यदुद्दिश्य मङ्गलमाचरितं तत्प्रतिज्ञातुं प्रतीकमादत्ते —

उषा वा इति ।

एतेन चिकीर्षिताया वृत्तेर्भर्तृप्रपञ्चभाष्येणागतार्थत्वमुक्तम् । तद्धि ‘द्वया हे’(बृ. उ. १ । ३ । १) त्यादिमाध्यन्दिनश्रुतिमधिकृत्य प्रवृत्तम् । इयं पुनः ‘उषा वा अश्वस्य’ (बृ. उ. १ । १ । १) इत्यादिकाण्वश्रुतिमाश्रित्येति ।

अथोद्देश्यं निर्दिशति —

तस्या इति ।

भर्तृप्रपञ्चभाष्याद्विशेषान्तरमाह —

अल्पग्रन्थेति ।

अस्या ग्रन्थतोऽल्पत्वेऽपि नार्थतस्तथात्वमिति ग्रन्थस्य ग्रहणम् । वृत्तिशब्दो भाष्यविषयः । सूत्रानुकारिभिर्वाक्यैः सूत्रार्थस्य स्वपदानां चोपवर्णनस्य भाष्यलक्षणस्यात्र भावादिति ।

ननु कर्मकाण्डाधिकारिणो विलक्षणोऽधिकारी न ज्ञानकाण्डे संभवति अर्थित्वादेः साधारणत्वाद्वैराग्यादेश्च दुर्वचनत्वात् । न च निरधिकारं शास्त्रमारम्भमर्हतीत्यत आह —

संसारेति ।

कर्मकाण्डे हि स्वर्गादिकामः संसारपरवशो नरपशुरधिकारी । इह तु संसाराद्व्यावृत्तिमिच्छवो विरक्ताः । न च वैराग्यं दुर्वचं शुद्धबुद्धेर्विवेकिनो ब्रह्मलोकान्ते संसारे तत्संभवात् । उक्तं हि –
“शोध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्याशु सुनिर्मलम् ॥“ इति ।
अतो यथोक्तविशिष्टाधिकारिभ्यो वृत्तेरारम्भः संभवतीत्यर्थः ।

तथाऽपि विषयप्रयोजनसंबन्धानामभावे कथं वृत्तिरारभ्यते तत्राऽह —

संसारहेत्विति ।

प्रमातृताप्रमुखः कर्तृत्वादिरनर्थः संसारस्तस्य हेतुरात्माविद्या तन्निवृत्तेः साधनं ब्रह्मात्मैकत्वविद्या तस्याः प्रतिपत्तिरप्रतिबद्धायाः प्राप्तिस्तदर्थं वृत्तिरारभ्यत इति योजना । एतदुक्तं भवति – सनिदानानर्थनिवृत्तिः शास्त्रस्य प्रयोजनम् । ब्रह्मात्मैक्यविद्या तदुपायः । तदैक्यं विषयः । संबन्धो ज्ञानफलयोरुपायोपेयत्वम् । शास्त्रतद्विषययोर्विषयविषयित्वं तदारभ्यं शास्त्रमिति ।

प्रयोजनादिषु प्रवृत्त्यङ्गतयोक्तेष्वपि सर्वव्यापाराणां प्रयोजनार्थत्वात्तस्य प्राधान्यम् । उक्तं हि –
“सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् ।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥“इति ।
तथा च शास्त्रारम्भौपयिकं प्रयोजनमेव नामव्युत्पादनद्वारा व्युत्पादयति —

सेयमिति ।

अध्यात्मशास्त्रेषु प्रसिद्धा सन्निहिता चात्र ब्रह्मात्मैक्यविद्या तन्निष्ठानां सर्वकर्मसंन्यासिनां सनिदानस्य संसारस्यात्यन्तनाशकत्वाद्भवत्युपनिषच्छब्दवाच्या । ‘उपनिषदं भो ब्रूहि’ (के. उ. ४ । ७) इत्याद्या च श्रुतिः । तस्मादुपनिषच्छब्दवाच्यत्वप्रसिद्धेर्विद्यायास्ततो यथोक्तफलसिद्धिरित्यर्थः ।

कथं तस्यास्तच्छब्दवाच्यत्वेऽप्येतावानर्थो लभ्यते तत्राऽह —

उपनिपूर्वस्येति ।

अस्यार्थः – “षद्लृविशरणगत्यवसादनेषु” इति स्मर्यते । सदेर्धातोरुपनिपूर्वस्य क्विबन्तस्य सहेतुसंसारनिवर्तकब्रह्मविद्यार्थत्वादुपनिषच्छब्दवाच्या सा भवत्युक्तफलवती । उपशब्दो हि सामीप्यमाह । तच्चासति संकोचके प्रतीचि पर्यस्यति । निशब्दश्च निश्चयार्थस्तस्मादैकात्म्यं निश्चितं तद्विद्या सहेतुं संसारं सादयतीत्युपनिषदुच्यते उक्तं हि – ‘अवसादनार्थस्य चावसादात्’ इति ।

ब्रह्मविद्यैव चेदुपनिषदिष्यते कथं तर्हि ग्रन्थे वृद्धास्तच्छब्दं प्रयुञ्जते न खल्वेकस्य शब्दस्यानेकार्थत्वं न्याय्यमित्याशङ्क्याऽऽह —

तादर्थ्यादिति ।

ग्रन्थस्य ब्रह्मविद्याजनकत्वादुपचारात्तत्रोपनिषत्पदमित्यर्थः ।

यथोक्तविद्याजनकत्वे ग्रन्थस्य किमिति तदध्येतॄणां सर्वेषां विद्या न भवतीत्याशङ्क्यश्रवणादिपराणामेवारण्यानुवचनादिनियमाधीताक्षरेभ्यस्तज्जन्मेति बृहदारण्यकनामनिर्वचनपूर्वकमाह —

सेयमिति ।

अथारण्यानुवचनादिनियमाधीतवेदान्तानामपि केषाञ्चिद्विद्यानुपलम्भात्कुतो यथोक्ताक्षरेभ्यस्तदुत्पत्तिरित्यत आह —

बृहत्त्वादिति ।

उपनिषदन्तरेभ्यो ग्रन्थपरिमाणातिरेकादस्य बृहत्त्वं प्रसिद्धमर्थतोऽपि तस्य तदस्ति ब्रह्मणोऽखण्डैकरसस्यात्र प्रतिपाद्यत्वात्तज्ज्ञानहेतूनां चान्तरङ्गाणां भूयसामिह प्रतिपादनात् । अतो बृहत्त्वादारण्यकत्वाच्च बृहदारण्यकम् । नचैतदशुद्धबुद्धेरधीतमपि विद्यामादधाति । “कषाये कर्मभिः पक्वे ततो ज्ञानम्”(भा.शान्ति.२७०।३८) इति स्मृतेरित्यर्थः । ज्ञानकाण्डस्य विशिष्टाधिकार्यादिवैशिष्ट्येऽपि कर्मकाण्डेन नियतपूर्वापरभावानुपपत्तिलभ्यः संबन्धो वक्तव्यः । स च परीक्षकविप्रतिपत्तेरशक्यो विशेषतो ज्ञातुमित्याशङ्क्याऽऽह तस्येति ।