बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सर्वथाप्यस्त्यात्मा देहान्तरसम्बन्धीत्येवं प्रतिपत्तुर्देहान्तरगतेष्टानिष्टप्राप्तिपरिहारोपायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्मकाण्डमारब्धम् । न त्वात्मनः इष्टानिष्टप्राप्तिपरिहारेच्छाकारणमात्मविषयमज्ञानं कर्तृभोक्तृस्वरूपाभिमानलक्षणं तद्विपरीतब्रह्मात्मस्वरूपविज्ञानेनापनीतम् । यावद्धि तन्नापनीयते, तावदयं कर्मफलरागद्वेषादिस्वाभाविकदोषप्रयुक्तः शास्त्रविहितप्रतिषिद्धातिक्रमेणापि प्रवर्तमानो मनोवाक्कायैर्दृष्टादृष्टानिष्टसाधनान्यधर्मसंज्ञकानि कर्माण्युपचिनोति बाहुल्येन, स्वाभाविकदोषबलीयस्त्वात् । ततः स्थावरान्ताधोगतिः । कदाचिच्छास्त्रकृतसंस्कारबलीयस्त्वम् । ततो मनआदिभिरिष्टसाधनं बाहुल्येनोपचिनोति धर्माख्यम् । तद्द्विविधम् — ज्ञानपूर्वकं केवलं च । तत्र केवलं पितृलोकादिप्राप्तिफलम् । ज्ञानपूर्वकं देवलोकादिब्रह्मलोकान्तप्राप्तिफलम् । तथा च शास्त्रम् — ‘आत्मयाजी श्रेयान्देवयाजिनः’ (शत. ब्रा. १ । २ । ६ । ११३) इत्यादि । स्मृतिश्च ‘द्विविधं कर्म वैदिकम्’ (मनु. १२ । ८८) इत्याद्या । साम्ये च धर्माधर्मयोर्मनुष्यत्वप्राप्तिः । एवं ब्रह्माद्या स्थावरान्ता स्वाभाविकाविद्यादिदोषवती धर्माधर्मसाधनकृता संसारगतिर्नामरूपकर्माश्रया । तदेवेदं व्याकृतं साध्यसाधनरूपं जगत् प्रागुत्पत्तेरव्याकृतमासीत् । स एष बीजाङ्कुरादिवदविद्याकृतः संसारः आत्मनि क्रियाकारकफलाध्यारोपलक्षणोऽनादिरनन्तोऽनर्थ इत्येतस्माद्विरक्तस्याविद्यानिवृत्तये तद्विपरीतब्रह्मविद्याप्रतिपत्त्यर्थोपनिषदारभ्यते ॥

तस्यास्येत्यादिना काण्डयोः संबन्धं प्रतिज्ञाय तादर्थ्येन सिद्धेऽर्थे वेदान्तप्रामाण्यं सर्वोऽपीत्यादिना प्रसाध्याधुना कर्मभिः शुद्धबुद्धेर्वैराग्यादिद्वारा ज्ञानोत्पत्तिरिति तयोः संबन्धं कथयति —

सर्वथाऽपीति ।

आगमात्मानान्तराद्वा व्यतिरिक्तात्मास्तित्वप्रतिपत्तावपीत्यर्थः ।

पुरुषार्थोपायविशेषार्थिनस्तज्ज्ञापनार्थं कर्मकाण्डमारब्धं चेत्तर्हि तत्रोक्तकर्मभिरेव विवक्षितपुमर्थसिद्धेर्वेदान्तारम्भवैयर्थ्यान्न संबन्धोक्तिः सावकाशेत्याशङ्क्याऽऽह —

नत्विति ।

आत्माज्ञानं खल्वनर्थकारणमन्वयव्यतिरेकशास्त्रगम्यं मिथ्याज्ञानकार्यलिङ्गकं च । तच्चाकर्तृभोक्तृब्रह्मात्मज्ञानादपनेयम् । न हि तत्कर्मकाण्डोक्तैरेव कर्मभिः शक्यमपनेतुं विरोधाभावात् । तस्मात्तद्धानार्थं ज्ञानसिद्धये वेदान्तारम्भभावादुक्तसंबन्धसिद्धिरित्यर्थः ।

यदि कर्मभिरज्ञानं न निवर्तते । मा निवर्तिष्ट । सत्येव तस्मिन्कर्मवशान्मोक्षः स्यादित्याशङ्क्याऽऽह —

यावद्धीति ।

सम्यग्ज्ञानमेव साक्षान्मोक्षहेतुर्न कर्म । तत्तु प्रणाड्या तदुपयोगि । न हि सत्येवाज्ञाने मुक्तिः । तस्मिन्सति संसारस्य दुर्वारत्वात् । तस्मात्कर्मकाण्डस्य वैराग्यद्वारा प्रवेशो मुक्ताविति भावः । अयमित्यज्ञो निर्दिश्यते । रागद्वेषादीत्यादिशब्देनाविद्यास्मिताभिनिवेशादयो गृह्यन्ते । दोषाणां स्वाभाविकत्वं शास्त्रानपेक्षत्वम् । अपिकारः संभावनार्थः । दृष्टत्वमन्वयव्यतिरेकसिद्धत्वम् । अदृष्टत्वं शास्त्रमात्रगम्यत्वम् ।

अधर्मोपचयप्राचुर्ये हेतुमाह —

स्वाभाविकेति ।

अथ वैराग्यार्थं कर्मफलं प्रपञ्चयन्नधर्मफलमाह —

तत इति ।

उक्तं हि – “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः”(मनु १२.९) इति ।

तत्किं पुण्योपचयाभावादनवकाशं स्वर्गादिफलमिति नेत्याह —

कदाचिदिति ।

शास्त्रीयसंस्कारस्य बलीयस्त्वे फलितमाह —

तत इति ।

आदिशब्दो वाग्देहविषयः ।

फलविभागं वक्तुं कर्म भिनत्ति —

तद्द्विविधमिति ।

तस्य मुक्तिफलत्वं निरसितुं फलं विभजते —

तत्रेति ।

केवलमिष्टादिकर्मेति शेषः । ‘कर्मणा पितृलोकः” इति हि वक्ष्यति । तस्मिन्फले नानात्वमभिप्रेत्याऽऽदिशब्दः ।

’विद्यया देवलोकः’ इति श्रुतिमाश्रित्याऽऽह —

ज्ञानेति ।

देवलोको यस्याऽऽदिर्ब्रह्मलोको यस्यान्तस्तस्यार्थस्य प्राप्तिरेव फलमस्येति विग्रहः ।

उक्तेऽर्थे शतपथीं श्रुतिं प्रमाणयति —

तथा चेति ।

सर्वत्र परमात्मभावनापुरःसरं नित्यं कर्मानुतिष्ठन्नात्मयाजी, कामनापुरःसरं देवान्यजमानो देवयाजी । तयोर्मध्ये कतरः श्रेयानिति विचारे सत्यात्मयाजी श्रेयानिति निर्णयः कृतः । अतो ज्ञानपूर्वकं कर्म देवलोकस्य कामनापूर्वं तु पितृलोकस्य प्रापकमित्यर्थः ।

’प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
इह वाऽमुत्र वा काम्यं कर्म कीर्त्यते ॥
निष्कामं ज्ञानपूर्वं तु निवृत्तमभिधीयते ।’
इत्यादि मनुस्मृतिं चात्रैवोदाहरति —

स्मृतिश्चेति ।

धर्माधर्मयोरेकैकस्य फलमुक्त्वा मिश्रयोः फलमाह —

साम्ये चेति ।

उक्तं हि – ‘उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः’(नै.सि.१.४१) इति ।

त्रिविधमपि कर्मफलं वैराग्यार्थं संक्षिप्योपसंहरति —

एवमिति ।

सा चाविद्याकृतत्वादनर्थरूपेत्याह —

स्वाभाविकेति ।

विचित्रकर्मजन्यतया तस्या वैचित्र्यमाह —

धर्माधर्मेति ।

तर्हि धर्माधर्माभ्यामेव तन्निर्माणसंभवात्कृतमविद्ययेत्यत आह —

नामेति ।

तेषां सूक्ष्मावस्थाऽविद्या तदालम्बनेति यावत् धर्मादेरविद्यायाश्च निमित्तत्वोपादानत्वाभ्यामुपयोग इति भावः ।

ननु संसारगतेराविद्यत्वमयुक्तं प्रत्यक्षादिप्रतिपन्नत्वात्तन्नामरूपाभ्यामेव व्याक्रियतेति श्रुतौ च नामरूपात्मनो जगतोऽभिव्यक्तिश्रवणान्न च प्रामाणिकस्याविद्याकृतत्वमत आह —

तदेवेदमिति ।

जगतः स्वरूपमात्मा तत्राध्यस्तत्वात्तस्मादात्मतत्त्वेऽनभिव्यक्ते प्रत्यक्षादिना श्रुत्या चाभिव्यक्तमिव दृश्यमानमपि जगदनभिव्यक्तमेवेति न तस्याविद्याकृतत्वक्षतिरिति भावः ।

अविद्याकृतां संसारगतिमनुभाषते —

स एष इति ।

नन्वविद्याकृतत्वे कथमनादित्वमित्याशङ्क्य तस्य प्रवाहरूपेणेत्याह —

बीजाङ्कुरादिवदिति ।

चैतन्यवदात्मनि तस्याविद्याकृतत्वानुपपत्तिमाशङ्क्य नानारूपत्वेन ततो विलक्षणत्वादेकरूपे युक्तं तस्य कल्पितत्वमित्याह —

क्रियेति ।

तर्हि कादाचित्कतया साधनापेक्षामन्तरेण नाशो भविष्यतीत्याशङ्क्याऽऽह —

अनादिरिति ।

अनादेरपि संसारस्य प्रागभाववन्निवृत्तिः स्यादिति चेत्तथाऽपि ब्रह्मविद्यामन्तरेण नाशो नास्तीत्याह —

अनन्त इति ।

प्रयत्नतो हेयत्वं द्योतयितुमनर्थ इति विशेषणम् । नैसर्गिक इति पाठे तु कारणरूपेण तत्त्वमुन्नेयम् ।

यस्मात्कर्म संसारफलं न मोक्षं फलयति तस्मात्सनिदानसंसारनिवर्तकात्मज्ञानार्थत्वेन साधनचतुष्टयसंपन्नमधिकारिणमधिकृत्य वेदान्तारम्भः संभवतीत्युपसंहरति —

इत्येतस्मादिति ।