बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अस्य त्वश्वमेधकर्मसम्बन्धिनो विज्ञानस्य प्रयोजनम् — येषामश्वमेधे नाधिकारः, तेषामस्मादेव विज्ञानात्तत्फलप्राप्तिः, विद्यया वा कर्मणा वा, ‘तद्धैतल्लोकजिदेव’ (बृ. उ. १ । ३ । २८) इत्येवमादिश्रुतिभ्यः । कर्मविषयत्वमेव विज्ञानस्येति चेत् , न ; ‘योऽश्वमेधेन यजते य उ चैनमेवं वेद’ (तै. सं. ५ । ३ । १२) इति विकल्पश्रुतेः । विद्याप्रकरणे चाम्नानात् , कर्मान्तरे च सम्पादनदर्शनात् , विज्ञानात्तत्फलप्राप्तिरस्तीत्यवगम्यते । सर्वेषां च कर्मणां परं कर्माश्वमेधः, समष्टिव्यष्टिप्राप्तिफलत्वात् । तस्य चेह ब्रह्मविद्याप्रारम्भे आम्नानं सर्वकर्मणां संसारविषयत्वप्रदर्शनार्थम् । तथा च दर्शयिष्यति फलमशनायामृत्युभावम् । न नित्यानां संसारविषयफलत्वमिति चेत् , न ; सर्वकर्मफलोपसंहारश्रुतेः । सर्वं हि पत्नीसम्बद्धं कर्म ; ‘जाया मे स्यादेतावान्वै कामः’ (बृ. उ. १ । ४ । १७) इति निसर्गत एव सर्वकर्मणां काम्यत्वं दर्शयित्वा, पुत्रकर्मापरविद्यानां च ‘अयं लोकः पितृलोको देवलोकः’ इति फलं दर्शयित्वा, त्र्यन्नात्मकतां चान्ते उपसंहरिष्यति ‘त्रयं वा इदं नाम रूपं कर्म’ (बृ. उ. १ । ६ । १) इति — सर्वकर्मणां फलं व्याकृतं संसार एवेति । इदमेव त्रयं प्रागुत्पत्तेस्तर्ह्यव्याकृतमासीत् । तदेव पुनः सर्वप्राणिकर्मवशाद्व्याक्रियते बीजादिव वृक्षः । सोऽयं व्याकृताव्याकृतरूपः संसारोऽविद्याविषयः क्रियाकारकफलात्मकतयात्मरूपत्वेनाध्यारोपितोऽविद्ययैव मूर्तामूर्ततद्वासनात्मकः । अतो विलक्षणोऽनामरूपकर्मात्मकोऽद्वयो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि क्रियाकारकफलभेदादिविपर्ययेणावभासते । अतोऽस्मात्क्रियाकारकफलभेदस्वरूपात् ‘एतावदिदम्’ इति साध्यसाधनरूपाद्विरक्तस्य कामादिदोषकर्मबीजभूताविद्यानिवृत्तये रज्ज्वामिव सर्पविज्ञानापनयाय ब्रह्मविद्या आरभ्यते ॥

यथोक्तज्ञानार्थत्वेनोपनिषदारम्भे ‘ब्रह्म वा इदमग्र आसीत्’ (बृ. उ. १ । ४ । १०) इत्यारब्धव्यं तस्मादारभ्य ज्ञानोपदेशात् ‘उषा वा अश्वस्य’ (बृ. उ. १ । १ । १) इत्यारम्भस्तु न युक्तः साक्षादत्र तदनुक्तेरित्याशङ्क्यास्मादारभ्योपनिषदारम्भेऽभीष्टं फलमभिधित्समानः प्रथममश्वमेधोपासनफलमाह —

अस्य त्विति ।

राजयज्ञत्वादश्वमेधस्य तदनधिकारिणामपि ब्रह्मणादीनां तत्फलार्थिनामस्मादेवोपासनात्तदाप्तिरिति मत्वा श्रुतौ तदुपासनोक्तीत्यर्थः ।

किमत्र नियामकमित्याशङ्क्य विकल्पश्रवणं केवलस्यापि ज्ञानस्य साधनत्वं सूचयतीत्यर्थतो विकल्पश्रुतिमुदाहरति —

विद्ययेति ।

तत्फलप्राप्तिरिति पूर्वेण संबन्धः ।

तत्रैव श्रुत्यन्तरमाह —

तद्धेति ।

तदेतत्प्राणदर्शनं लोकप्राप्तिसाधनं प्रसिद्धमिति यावत् । आदिशब्देन केवलोपास्त्या ब्रह्मलोकाप्तिवादिन्यः श्रुतयो गृह्यन्ते ।

अश्वमेधे यदुपासनं तस्याप्यश्वादिवत्तच्छेषत्वेन फलवत्त्वान्न स्वातन्त्र्येण तद्वत्त्वमङ्गेषु स्वतन्त्रफलाभावादिति शङ्कते —

कर्मविषयत्वमिति ।

ज्ञानस्य क्रत्वर्थत्वं दूषयति —

नेति ।

पूर्वत्रार्थतो दर्शितां विकल्पश्रुतिमत्र हेतुतया स्वरूपतोऽनुक्रामति —

योऽश्वमेधेनेति ।

“सर्वं पाप्मानं तरति तरति ब्रह्महत्या”मिति संबन्धः । ज्ञानकर्मणोस्तुल्यफलत्वस्य न्याय्यत्वादिति शेषः ।

उपास्तिफलश्रुतेरर्थवादत्वमाशङ्क्याश्वमेधवदुपास्तेरपि कर्मत्वाद्विहितत्वात्कर्मप्रकरणाद्व्युत्थितत्वाच्च मैवमित्याह —

विद्येति ।

फलश्रुतेरर्थवादत्वाभावे हेत्वन्तरमाह —

कर्मान्तरे चेति ।

अश्वमेधातिरिक्ते कर्मणि ‘अयं वाव लोकोऽग्निरि’त्यादौ चित्याग्न्यादावेतल्लोकादिसंपादनस्य स्वतन्त्रफलोपासनस्य दर्शनान्न फलश्रुतेरर्थवादतेत्यर्थः ।

अश्वमेधोपासनं न क्रत्वर्थं किन्तु पुरुषार्थं तत्र चाधिकारोऽश्वमेधक्रत्वनधिकारिणामपीत्येतावदेवेष्टं चेदुपासने कर्मप्रकरणस्थेऽपि तल्लाभाद्विद्याप्रकरणे नास्याध्ययमर्थवदित्याशङ्क्याऽऽह —

सर्वेषां चेति ।

परत्वे हेतुः —

समष्टीति ।

अनुवृत्तव्यावृत्तरूपहिरण्यगर्भप्राप्तिहेत्त्वात्तस्य श्रेष्ठतेत्यर्थः ।

तस्य पुण्यश्रेष्ठत्वेऽपि प्रकृते किमायातं तदाह —

तस्य चेति ।

यदा क्रतुप्रधानस्याश्वमेधस्योपास्तिसहितस्यापि संसारफलत्वं तदाऽल्पीयसामग्निहोत्रादीनां संसारफलत्वं किंवाच्यमित्यस्मिन्कर्मराशौ बन्धहेतौ विरक्ताः साधनचतुष्टयविशिष्टा ज्ञानमपेक्षमाणास्तदुपाये श्रवणादावेव सर्वकर्मसंन्यासपूर्वके कथं प्रवर्तेरन्नित्याशयवती श्रुतिरुपासनां विद्यारम्भेऽभिदधाति । तेनोषा वा अश्वस्येत्याद्युपनिषदारम्भो युक्तोऽस्य विशिष्टाधिकारिसमर्पकत्वादित्यर्थः ।

उपासनफलस्य संसारगोचरत्वमेव कुतः सिद्धमत आह —

तथा चेति ।

‘अशनाया हि मृत्युः’(बृ. उ. १ । २ । १) ‘स वै नैव रेमे’(बृ. उ. १ । ४ । ३) ‘सोऽबिभे’(बृ. उ. १ । ४ । २)दिति भयारत्यादिश्रवणादुपास्तियुक्तक्रतुफलस्य सूत्रस्य बन्धमध्यपातित्वाद्विशिष्टोऽपि क्रतुर्न मुक्तये पर्याप्नोतीत्यर्थः ।

उक्ते सर्वकर्मणां बन्धफलत्वे नित्यनैमित्तिकानां न तत्फलत्वं तेषां विध्युद्देशे फलाश्रुतेर्नष्टाश्वदग्धरथन्यायेन मुक्तिफलत्वलाभादिति शङ्कते —

न नित्यानामिति ।

’एतावान्वै काम’ इति सर्वकर्मणामविशेषेण फलसंबन्धश्रवणात्पश्वादेश्च काम्यफलत्वस्य तद्विध्युद्देशवशात्सिद्धत्वात् ‘कर्मणापितृलोक’(बृ. उ. १ । ५ । १६) इति वाक्यस्य नित्यादिकर्मफलविषयत्वान्न मोक्षफलत्वाशङ्केति परिहरति —

नेति ।

उक्तमेव स्फुटयति —

सर्वं हीति ।

पत्नीसंबन्धे मानमाह —

जायेति ।

तथाऽपि कथं कर्मणः सर्वस्य कामोपायत्वं तत्राऽऽह —

एतावान्वै काम इति ।

कथं तर्हि तेषां फलभेदो लभ्यते तत्राऽऽह —

पुत्रेति ।

अथैवं फलविभागे कथं समष्टिव्यष्टिप्राप्तिफलत्वमश्वमेधस्योक्तमत आह —

त्र्यन्नात्मकतां चेति ।

अस्याध्यायस्यावसाने कर्मफलस्य हिरण्यगर्भरूपतां त्रयमित्याद्या श्रुतिरुपसंहरिष्यतीत्यर्थः ।

उपसंहारश्रुतेस्तात्पर्यमाह —

सर्वकर्मणामिति ।

कर्मफलं संसारश्चेत्प्राक्तदनुष्ठानात्तदभावान्मुक्तानां पुनर्बन्धः स्यादित्याशङ्क्याऽऽह —

इदमेवेति ।

तर्हि तस्यामवस्थायामिति यावत् ।

तस्य पुनर्व्याकरणे कारणमाह —

तदेवेति ।

व्याकृताव्याकृतात्मनः संसारस्य प्रामाणिकत्वेन सत्यत्वमाशङ्क्याविद्याकृतत्वेन तन्मिथ्यात्वमुक्तं स्मारयति —

सोऽयमिति ।

स एव हि भ्रान्तिविषयो न प्रामाणिकस्तत्कुतोऽस्य सत्यतेत्यर्थः ।

कथमस्याऽऽत्मन्यद्वये कूटस्थे प्राप्तिरित्याशङ्क्याऽऽह —

क्रियेति ।

समारोपे मूलकारणमाह —

अविद्ययेति ।

आत्मन्यविद्यारोपितं द्वैतमित्यत्र ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चे’(बृ. उ. २ । ३ । १) त्यादिवाक्यं प्रमाणयति —

मूर्तेति ।

नन्वात्मन्यारोपो नोपपद्यते तस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य द्वैतविलक्षणत्वादसति सादृश्येऽध्यासासिद्धेरत आह —

अत इति ।

संसाराद्वैलक्षण्यमेव प्रकटयति —

अनामेति ।

आदिपदेनान्येऽपि विपर्ययभेदाः संगृह्यन्ते ।

आरोपे प्रमिणोमि करोमि भुञ्जे चेत्यनुभवं प्रमाणयति —

अवभासत इति ।

आत्मन्यध्यासः सादृश्याद्यभावेऽपि नभसि मलिनत्वादिवद्यतोऽनुभूयतेऽतः सविलासाविद्यानिवर्तकब्रह्मविद्यार्थत्वेनोपनिषदारम्भः संभवतीत्युपसंहरति —

अत इति ।

एतावदित्यनर्थात्मत्वोक्तिः ।

तत्त्वज्ञानादज्ञाननिवृत्तौ दृष्टान्तमाह —

रज्ज्वामिवेति ।