एवमुपनिषदारम्भे स्थिते प्राथमिकब्राह्मणयोरवान्तरतात्पर्यमाह —
तत्र तावदिति ।
आद्यस्य पुनरवान्तरतात्पर्यं दर्शयति —
तत्रेति ।
नन्वश्वमेधस्याङ्गबाहुल्ये कस्मादश्वाख्याङ्गविषयमेवोपासनमुच्यते तत्राऽऽह —
प्राधान्यादिति ।
तदेव कथमिति तदाह —
प्राधान्यं चेति ।
प्रजापतिदेवताकत्वाच्चाश्वस्य प्राधान्यमित्याह —
प्राजापत्यत्वाच्चेति ।