प्रतीकमादाय व्याचष्टे —
उषा इत्यादिना ।
स्मारणार्थत्वमेव निपातस्य स्फुटयति —
प्रसिद्धमिति ।
शास्त्रीये लौकिके च व्यवहारे प्रसिद्धो ब्राह्मो मुहूर्तस्तं कालमिति यावत् ।
उषसि शिरःशब्दप्रयोगे दिनावयवेषु तस्य प्राधान्यं हेतुमाह —
प्राधान्यादिति ।
तथापि कथं तत्र तच्छब्दप्रयोगस्तत्राऽऽह —
शिरश्चेति ।
आश्वमेधिकाश्वशिरस्युषसो दृष्टिः कर्तव्येत्याह —
अश्वस्येति ।
कालादिदृष्टिरश्वाङ्गेषु किमिति क्षिप्यतेऽश्वाङ्गदृष्टिरेव तेषु किं न स्यादित्याशङ्क्याऽऽह —
कर्माङ्गस्येति ।
अङ्गेष्वनङ्गमतिक्षेपे हेत्वन्तरमाह —
प्राजापत्यत्वं चेति ।
अश्वस्य सेत्स्यतीति शेषः, तत्र हेतुः —
प्रजापतीति ।
ननु कालादिदृष्ट्योऽश्वावयवेष्वारोप्यन्ते न तस्य प्रजापतित्वं क्रियते तत्राऽऽह —
कालेति ।
कालाद्यात्मको हि प्रजापतिः । तया च यथा प्रतिमायां विष्णुत्वकरणं तद्दृष्टिस्तथा कालादिदृष्टिरश्वावयवेषु तस्य प्रजापतित्वकरणम् । अश्वमेधाधिकारी हि सत्यश्वे कर्मणो वीर्यवत्तरत्वार्थं कालादिदृष्टीरश्वावयवेषु कुर्यात् । तदनधिकारी त्वश्वाभावे स्वात्मानमश्वं कल्पयित्वा स्वशिरःप्रभृतिषु कालादिदृष्टिकरणेन प्रजापतित्वं संपाद्य प्रजापतिरस्मीति ज्ञानात्तद्भावं प्रतिपद्येतेति भावः ।
चक्षुषि सूर्यदृष्टौ हेतुमाह —
शिरस इति ।
उषसोऽनन्तरत्वं सूर्ये दृष्टं चक्षुषि च शिरसोऽनन्तरत्वं दृश्यते तस्मात्तत्र तद्दृष्टिर्युक्तेत्यर्थः ।
तत्रैव हेत्वन्तरमाह —
सूर्येति ।
“आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्” इति श्रुतेश्चक्षुषि सूर्योऽधिष्ठात्री देवता तेन सामीप्यात्तत्र तद्दृष्टिरित्यर्थः । अश्वप्राणे वायुदृष्टौ चलनस्वाभाव्यं हेतुः ।
अश्वस्य विदारिते मुखे भवत्वग्निदृष्टिस्तथाऽपि पर्यायोपादानं व्यर्थमित्याशङ्क्य क्रव्यादादिव्यावृत्त्यर्थं विशेषणमित्याह —
वैश्वानर इत्यग्नेरिति ।
“अग्निर्वाग्भूत्वा मुखं प्राविशत्” इति श्रुतिमाश्रित्य मुखे तद्दृष्टौ हेतुमाह —
मुखस्येति ।
अधिकमासमनुसृत्य त्रयोदशमासो वेत्युक्तम् ।
शरीरे संवत्सरदृष्टिरित्यत्राऽऽत्मत्वं हेतुमाह —
कालेति ।
आत्मा हस्तादीनामङ्गानामिति शेषः ।
कालावयवानां संवत्सरस्याऽऽत्मत्ववदङ्गानां शरीरस्याऽऽत्मत्वे प्रमाणमाह —
मध्यं हीति ।
पुनरुक्तेरर्थवत्त्वमाह —
अश्वस्येति ।
पृष्टे द्युलोकदृष्टौ हेतुमाह —
ऊर्ध्वत्वेति ।
उदरेऽन्तरिक्षदृष्टौ निमित्तमाह —
सुषिरत्वेति ।
पादा अस्यन्ते यस्मिन्निति व्युत्पत्तिमाश्रित्य विवक्षितमाह —
पादेति ।
अश्वस्य हि खुरे पादासनत्वसामान्यात्पृथिवीदृष्टिरित्यर्थः ।
पार्श्वयोर्दिक्चतुष्टयदृष्टौ हेतुमाह —
पार्श्वेनेति ।
द्वे पार्श्वे चतस्रश्च दिशस्तत्र कथं तयोस्तदारोपणं द्वाभ्यामेव द्वयोः संबन्धादिति शङ्कते —
पार्श्वयोरिति ।
यद्यपि द्वे दिशौ द्वाभ्यां पार्श्वाभ्यां संबध्येते तथाऽप्यश्वस्य प्राङ्मुखत्वे प्रत्यङ्मुखत्वे च दक्षिणोत्तरयोस्तन्मुखत्वे च प्राक्प्रतीच्योर्दिशोस्ताभ्यां संबन्धसंभवात्तत्र तद्दृष्टिरविरुद्धेति परिहरति —
नेत्यादिना ।
तदुपपत्तौ चाश्वस्य चरिष्णुत्वं हेतूकर्तव्यम् । पार्श्वास्थिष्ववान्तरदिशामारोपे पार्श्वदिक्संबन्धो हेतुः ।
ऋतवः संवत्सरस्याङ्गानि हस्तादीनि च देहस्यावयवास्तस्मादृतुदृष्टिरङ्गेषु कर्तव्येत्याह —
ऋतव इति ।
अस्ति मासादीनां संवत्सरसन्धित्वमस्ति च शरीरसन्धित्वं पर्वणामतस्तेषु मासादिदृष्टिरित्याह —
सन्धीति ।
युगसहस्राभ्यां प्राजापत्यमेकमहोरात्रम् । अयनाभ्यां दैवम् । पक्षाभ्यां पित्र्यम् । षष्टिघटिकाभिर्मानुषमिति भेदः ।
प्रतिष्ठाशब्दस्य पादविषयत्वं व्युत्पादयति —
प्रतितिष्ठतीति ।
पादेष्वहोरात्रदृष्टिसिद्ध्यर्थं युक्तिमुपपादयति —
अहोरात्रैरिति ।
अस्थिषु नक्षत्रदृष्टौ हेतुमाह —
शुक्लत्वेति ।
नभःशब्देनान्तरिक्षं किमिति न गृह्यते मुख्ये सत्युपचारायोगादित्याशङ्क्य पुनरुक्तिं परिहर्तुमित्याह —
अन्तरिक्षस्येति ।
उदकं सिञ्चन्ति मेधा मांसानि रुधिरमतः सेककर्तृत्वसामान्यान्मांसेषु मेधदृष्टिरित्याह —
उदकेति ।
अश्वजठरविपरिवर्तिन्यर्धजीर्णे सिकतादृष्टौ हेतुमाह —
विश्लिष्टेति ।
किमिति गुदशब्देन पायुरेव न गृह्यते शिराग्रहणे हि मुख्यार्थातिक्रमः स्यात्तत्राह —
बहुवचनाच्चेति ।
चकारोऽवधारणार्थः । यद्यपि बहूक्त्या शिराभ्योऽर्थान्तरमपि गुदशब्दमर्हति तथाऽपि स्यन्दनसादृश्यात्तास्वेव सिन्धुदृष्टिरिति तासामिह ग्रहणमिति भावः ।
कुतो मांसखण्डयोर्द्वित्वमेकत्र बहुवचनाद्बहुत्वप्रतीतेरित्याशङ्क्य दारा इतिवद्बहूक्तेर्गतिमाह —
क्लोमान इति ।
तयोः पर्वतदृष्टौ हेतुद्वयमाह —
काठिन्यादित्यादिना ।
क्षुद्रत्वसाधर्म्यादोषधिदृष्टिर्लोमसु महत्त्वसामान्याद्वनस्पतिदृष्टिश्चाश्वकेशेषु कर्तव्येत्याह —
यथासंभवमिति ।
पूर्वत्वसामान्यान्मध्याह्नात्प्रागवस्थादित्यदृष्टिरश्वस्य नाभेरूर्ध्वभागे कर्तव्येत्याह —
उद्यन्नित्यादिना ।
अपरत्वसादृश्यादश्वस्य नाभेरपरार्धे मध्याह्नादनन्तरभाव्यादित्यदृष्टिःकार्येत्याह —
निम्लोचन्नित्यादिना ।
विजृम्भत इत्यादौ प्रत्ययार्थो न विवक्षितः ।
विजृम्भणं मुखविदारणं विद्योतनं पुनर्मेघगतमतो विद्योतनदृष्टिर्जृम्भणे कर्तव्येत्याह —
मुखेति ।
स्तनयतीति स्तनितमुच्यते तद्दृष्टिर्गात्रकम्पे कर्तव्येत्यत्र हेतुमाह —
गर्जनेति ।
मूत्रकरण वर्षणदृष्टौ कारणमाह —
सेचनेति ।
अश्वस्य हेषितशब्दे नास्त्यारोपणमित्यतो न सादृश्यं वक्तव्यमित्याह —
नात्रेति ॥१॥