अश्वावयवेषु कालादिदृष्टीर्विधायाश्वं प्रजापतिरूपं विवक्षित्वा कण्डिकान्तरं गृहीत्वा तात्पर्यमाह —
अहरित्यादिना ।
ग्रहौ हवनीयद्रव्याधारौ पात्रविशेषावग्रतः पृष्ठतश्चेति संज्ञपनात्प्रागूर्ध्वं चेति यावत् ।
प्रसिद्धातावदहनि दीप्तिः सौवर्णे च ग्रहे साऽस्त्यतस्तस्मिन्नहर्दृष्टिरिति दर्शनं विभजते —
अहरिति ।
अश्वसंज्ञपनात्पूर्वं यो महिमाख्यो ग्रहः स्थाप्यते स चेदहर्दृष्ट्योपास्यते कथं सोऽश्वमन्वजायतेति पश्चादश्वस्य तज्जन्मवाचोयुक्तिरिति शङ्कते —
अहरश्वमिति ।
नायं पश्चादर्थोऽनुशब्दः किन्तु लक्षणार्थः ।
तथा चाश्वस्य प्रजापतिरूपत्वात्तं लक्षयित्वा ग्रहस्य यथोक्तस्य प्रवृत्तेरुपदेशादश्वमन्वजायतेत्यविरुद्धमिति परिहरति —
अश्वस्येति ।
तदेव स्फुटयति —
प्रजापतिरिति ।
काललोकदेवतात्मा प्रजापतिरश्वात्मना दृश्यमानोऽत्राहर्दृष्ट्या दृष्टेन ग्रहेण लक्ष्यते । तथा चाश्वमन्वजायतेति श्रुतिरविरुद्धेत्यर्थः ।
अनुशब्दो न पश्चाद्वाचीत्यत्र दृष्टान्तमाह —
वृक्षमिति ।
यदा वृक्षं लक्षयित्वा तस्याग्रे विद्युद्विद्योतते तदा वृक्षमनु विद्योतते सेति प्रयुज्यते । तथाऽत्राप्यनुशब्दो न पश्चादर्थ इत्यर्थः ।
यत्र च स्थाने ग्रहः स्थाप्यते तत्पूर्वसमुद्रदृष्ट्या ध्येयमित्याह —
तस्येति ।
पूर्वत्रमत्र सादृश्यम् ।
कथं सप्तमी प्रथमार्थे योज्यते छन्दस्यर्थानुसारेण व्यत्ययसंभवादित्याह —
विभक्तीति ।
यथा सौवर्णे ग्रहेऽर्दृष्टिरुपदिष्टा तथा राजते ग्रहे रात्रिदृष्टिः कर्तव्येत्याह —
तथेति ।
अस्ति हि चन्द्रातपवत्त्वाद्रात्रेः शौक्ल्यमस्ति च राजतस्य ग्रहस्य तद्युक्तं तत्र रात्रिदर्शनमित्याह —
वर्णेति ।
रजतं सुवर्णाज्जघन्यमह्नश्च रात्रिरतो वा सादृश्यात्तत्र रात्रिदृष्टिरित्याह —
जघन्येति ।
प्रजापतिरूपं प्रकृतमश्वं लक्षयित्वा तत्संज्ञपनात्पश्चादस्य प्रवृत्तिं दर्शयति —
एनमिति ।
तदासादनस्थाने पश्चिमसमुद्रदृष्टिर्विधेयेत्यह —
तस्येति ।
कथमेतौ ग्रहौ महिमाख्यावुक्तौ महत्त्वोपेर्तत्वादित्याह —
महिमेति ।
अथाश्वविषयं दर्शनमादिश्य ग्रहविषयं तदादिशतो वाक्यभेदः स्यान्नेत्याह —
अश्वस्येति ।
किमत्र नियामकमित्याशङ्क्य पुनरुक्तिरिति मत्वाऽऽह —
तावित्यादिना ।
वैशब्दार्थकथनम् —
एवेति ।
वाक्यशेषोऽप्यत्रानुगुणीभवतीत्याह —
तथा चेति ।
हयशब्दनिष्पत्तिपुरःसरं तदर्थमाह —
हय इति ।
वाज्यादिशब्दानां जातिविशेषवाचित्वादत्रापि तदेव ग्राह्यमिति पक्षान्तरमाह —
जातीति ।
देवायनां देवत्वप्रापकत्वं कथमस्त्येत्याशङ्क्याह —
प्रजापतित्वादिति ।
अश्वं स्तोतुमारभ्य कल्पान्तरोक्त्या तन्निन्दावचनमनुचितमिति शङ्कते —
नन्विति ।
उपक्रमविरोधो नास्तीति परिहरति —
नेत्यादिना ।
समुत्पद्य भूतानि द्रवन्त्यस्मिन्निति व्युत्पत्त्या परमगम्भीरस्येश्वरस्य समुद्रशब्दतामाह —
परमात्मेति ।
तत्र योनित्वमुत्पादकत्वं बन्धुत्वं स्थापकत्वं समुद्रत्वं विलापकत्वमिति भेदः ।
अथ परमात्मयोनित्वादिवचनमुपास्याश्वस्य क्वोपयुज्यते तत्राऽऽह —
एवमिति ।
श्रुत्यन्तरानुरोधेन समुद्रो योनिरित्यत्र समुद्रशब्दस्य रूढिमनुजानाति —
अप्सुयोनिरिति ॥२॥