अश्वादिदर्शनोक्त्यनन्तरमग्निदर्शनं वक्तुं ब्राह्मणान्तरमवतारयति —
अथेति ।
नैवेहेत्यादौ तद्दृष्टिर्नास्तीति चेत्सत्यं तत्राग्नेर्जन्म वक्तुं भूमिका क्रियत इत्याह —
अग्नेरिति ।
वायोरग्निरित्यादौ प्रसिद्धं तज्जन्मेति चेत्सत्यं तद्विशेषस्यात्र जन्मोक्तिरित्याह —
अश्वमेधेति ।
दर्शने विधित्सिते किं जन्मोक्त्येति चेत्तत्राऽऽह —
तद्विषयेति ।
अग्निदर्शनस्य विधातुमिष्टस्य सिद्ध्यर्थमुपास्याग्निस्तुतिफला तदुत्पत्तिरिष्टा शुद्धजन्मत्वादुत्कृष्टत्वेनायमुपास्यो राजादिवदित्यर्थः ।
तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याचष्टे —
नैवेत्यादिना ।
नामरूपाभ्यां विभक्तो विशेषो यस्मिन्निति बहुव्रीहिः ।