अत्र शून्यवादी लब्धावकाशोऽविमृश्य परेष्टश्रुत्यवष्टम्भेन स्वपक्षमाह —
किमित्यादिना ।
कार्यस्य प्रागसत्त्वे हेत्वन्तरमाह —
उत्पत्तेश्चेति ।
विमतं प्रागसदुत्पद्यमानत्वाद्यन्नैवं न तदेवं यथा परेष्टं ब्रह्मेत्यर्थः ।
हेत्वसिद्धिं शङ्क्तित्वोत्तरमाह —
उत्पद्यते हीति ।
घटग्रहणं कार्यमात्रस्योपलक्षणार्थम् ।
उक्तमनुमानं निगमयति —
अत इति ।
तत्र तार्किको ब्रूते —
नन्विति ।
यदुक्तं न कार्यं कारणं वाऽऽसीदिति तत्र भागे बाधो भागे चानुमतिरित्यर्थः ।
कार्यस्यापि कथं प्रागसत्त्वोपपत्तिरित्याशङ्क्याऽऽह —
यन्नेति ।
एतेनानुमानस्य सिद्धसाध्यतोक्ता ।
कार्यवत्कारणप्स्यापि प्रागसत्त्वं किं न स्यादित्याशङ्क्योक्तहेत्वभावुन्मैवमित्याह —
नन्विति ।
शून्यवाद्याह —
न प्रागुत्पत्तेरिति ।
विमतं प्रागसद्योग्यत्वे सति तदाऽनुपलब्धत्वात्संमतवत् । न चासिद्धो हेतुः श्रुतेरनतिशङ्क्यत्वात् । तद्विरोधे सत्युपलब्धेराभासत्वादित्यर्थः ।
तदेव प्रपञ्चयति —
अनुपलब्धिश्चेदिति ।