बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीदशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वं कं ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥
न, ‘मृत्युनैवेदमावृतामासीत्’ इति श्रुतेः ; यदि हि किञ्चिदपि नासीत् , येनाव्रियते यच्चाव्रियते, तदा नावक्ष्यत् , ‘मृत्युनैवेदमावृतम्’ इति ; न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति ; ब्रवीति च ‘मृत्युनैवेदमावृतमासीत्’ इति । तस्मात् येनावृतं कारणेन, यच्चावृतं कार्यम् , प्रागुत्पत्तेस्तदुभयमासीत् , श्रुतेः प्रामाण्यात् , अनुमेयत्वाच्च । अनुमीयते च प्रागुत्पत्तेः कार्यकारणयोरस्तित्वम् । कार्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात् , असति चादर्शनात् , जगतोऽपि प्रागुत्पत्तेः कारणास्तित्वमनुमीयते, घटादिकारणास्तित्ववत् । घटादिकारणस्याप्यसत्त्वमेव, अनुपमृद्य मृत्पिण्डादिकं घटाद्यनुत्पत्तेरिति चेत् , न ; मृदादेः कारणत्वात् । मृत्सुवर्णादि हि तत्र कारणं घटरुचकादेः, न पिण्डाकारविशेषः, तदभावे भावात् । असत्यपि पिण्डाकारविशेषे मृत्सुवर्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते । तस्मान्न पिण्डाकारविशेषो घटरुचकादिकारणम् । असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्णादिद्रव्यमेव कारणम् , न तु पिण्डाकारविशेषः । सर्वं हि कारणं कार्यमुत्पादयत् , पूर्वोत्पन्नस्यात्मकार्यस्य तिरोधानं कुर्वत् , कार्यान्तरमुत्पादयति ; एकस्मिन्कारणे युगपदनेककार्यविरोधात् । न च पूर्वकार्योपमर्दे कारणस्य स्वात्मोपमर्दो भवति । तस्मात्पिण्डाद्युपमर्दे कार्योत्पत्तिदर्शनमहेतुः प्रागुत्पत्तेः कारणासत्त्वे । पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तमिति चेत् — पिण्डादिपूर्वकार्योपमर्दे मृदादि कारणं नोपमृद्यते, घटादिकार्यान्तरेऽप्यनुवर्तते, इत्येतदयुक्तम् , पिण्डघटादिव्यतिरेकेण मृदादिकारणस्यानुपलम्भादिति चेत् , न ; मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात् । सादृश्यादन्वयदर्शनम् , न कारणानुवृत्तेरिति चेत् , न ; पिण्डादिगतानां मृदाद्यवयवानामेव घटादौ प्रत्यक्षत्वेऽनुमानाभासात्सादृश्यादिकल्पनानुपपत्तेः । न च प्रत्यक्षानुमानयोर्विरुद्धाव्यभिचारिता, प्रत्यक्षपूर्वकत्वादनुमानस्य ; सर्वत्रैवानाश्वासप्रसङ्गात् — यदि च क्षणिकं सर्वं तदेवेदमिति गम्यमानम् , तद्बुद्धेरप्यन्यतद्बुद्ध्यपेक्षत्वे तस्या अप्यन्यतद्बुद्ध्यपेक्षत्वमित्यनवस्थायाम् , तत्सदृशमिदमित्यस्या अपि बुद्धेर्मृषात्वात् , सर्वत्रानाश्वासतैव । तदिदम्बुद्ध्योरपि कर्त्रभावे सम्बन्धानुपपत्तिः । सादृश्यात्तत्सम्बन्ध इति चेत् , न ; तदिदम्बुद्ध्योरितरेतरविषयत्वानुपपत्तेः । असति चेतरेतरविषयत्वे सादृश्यग्रहणानुपपत्तिः । असत्येव सादृश्ये तद्बुद्धिरिति चेत् , न ; तदिदम्बुद्ध्योरपि सादृश्यबुद्धिवदसद्विषयत्वप्रसङ्गात् । असद्विषयत्वमेव सर्वबुद्धीनामस्त्विति चेत् , न ; बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात् । तदप्यस्त्विति चेत् , न ; सर्वबुद्धीनां मृषात्वेऽसत्यबुद्ध्यनुपपत्तेः । तस्मादसदेतत् — सादृश्यात्तद्बुद्धिरिति । अतः सिद्धः प्राक्कार्योत्पत्तेः कारणसद्भावः ॥

कार्यवत्कारणस्यापि प्रागसत्त्वे प्राप्ते सिद्धान्तयति —

नेत्यादिना ।

नैवेत्यादिश्रुतिरव्यक्तनामरूपादिविषया न प्रागसत्त्वं कार्यकारणयोराह । अन्यथा वाक्यशेषविरोधादित्यर्थः ।

श्रुतिं विवृणोति —

यदि हीति ।

द्वयोरसत्त्वे का वाचोयुक्तेरिनुपपत्तिस्तत्राऽऽह —

न हीति ।

मा तर्हि वाक्यमेव भूदित्याशङ्क्याऽऽह —

ब्रवीति चेति ।

मृत्युनेत्यादिवाक्यार्थमुपसंहरति —

तस्मादिति ।

श्रुतेः प्रामाण्यादिति । तत्प्रामाण्यस्य प्रमाणलक्षणे स्थितत्वादिति यावत् ।

परकीयेऽनुमाने श्रुतिविरोधमभिधायानुमनविरोधमाह —

अनुमेयत्वाच्चेति ।

कार्यकारणयोः सत्त्वस्यानुमेयतया तदसत्त्वमनुमातुमशक्यम् । उपजीव्यविषयतया सत्त्वानुमानस्य बलीयस्त्वादित्यर्थः ।

कार्यकारणवयोः सत्त्वानुमानं प्रतिज्ञाय प्रथमं कारणसत्त्वमनुमिनोति —

अनुमीयते चेत्यादिना ।

कार्यस्य सत्त्वेऽनुमानमाह —

कार्यस्य हीति ।

विमतं पूर्वं सत् कार्यत्वात्कुम्भवदित्यर्थः ।

नानुपमृद्य प्रादुर्भावादिति न्यायेन दृष्टान्तस्य साध्यवैकल्यं चोदयति —

घटादीति ।

न तावदसिद्धो घटः स्वकारणमुपमृद्नात्यसतोऽकारकत्वात्सिद्धस्य तूपमर्दकत्वेनासत्पूर्वकत्वमिति कुतः साध्यविकलतेत्याह —

नेति ।

किञ्चान्वयिद्रव्यमेव सर्वत्र कारणं न पिण्डाकारविशेषोऽनन्वयादनवस्थानाच्चेति कुतः साध्यवैकल्यमित्याह —

मृदादेरिति ।

तदेव स्फुटयति —

मृत्सुवर्णादीति ।

तत्रेति दृष्टान्तोक्तिः ।

किञ्चान्वयव्यतिक्रेकाभ्यां कारणमवधेयम् । न च पिण्डाभावे घटो न भवतीति व्यतिरेकोऽस्ति । पिण्डाभावेऽपि शकलादिभ्योऽपि घटाद्युद्भावोपलम्भादित्याह —

तदभाव इति ।

तदेव स्फुटयति —

असत्यपीति ।

त्वन्मतेऽपि व्यतिरेकराहित्यं तुल्यमित्याशङ्क्याऽऽह —

असतीति ।

मृदाद्येव घटादिकारणं चेत्किमिति पिण्डादौ सत्येव ततो घटाद्यनुत्पत्तिरित्याशङ्क्याऽऽह —

सर्वमिति ।

ब्रह्मणि त्वविद्यावशादुत्पत्तिरिति भावः ।

अन्वयिद्रव्यं पूर्वोत्पन्नस्वकार्यतिरोधानेन कार्यान्तरं जनयति चेत्कार्यतादात्म्येन स्वयमपि नश्येत्तत्रोत्तरकार्योत्पत्तिहेत्वभावादित्याशङ्क्याऽऽह —

न चेति ।

कार्यान्तरेऽप्यनुवृत्तिदर्शनात्कार्यान्तरात्मना भावाच्चेत्यर्थः ।

अन्वयिद्रव्यस्यैव कारणत्वे फलितमाह —

तस्मादिति ।

अन्वयिनो मृदादेर्मानाभावेनाभावान्न कारणतेति शङ्कते —

पिण्डादीति ।

तदेव चोद्यं विवृणोति —

पिण्डादीत्यादिना ।

मृद्घटः सुवर्णं कुण्डलमित्यादितादात्म्यप्रत्ययस्य पिण्डाद्यतिरिक्तमृदाद्याभावेऽनुपपत्तेरनुगतं मृदाद्युपेयमिति परिहरति —

नेति ।

किञ्च या पिण्डात्मना पूर्वेद्युर्मृदासीत्सैव घटाद्यभूदिति प्रत्यभिज्ञया मृदोऽन्वयिन्याः सिद्धेस्तत्कारणत्वं दुरपह्नवमित्याह —

मृदादीति ।

यत्सत्तत्क्षणिकं यथा दीपः सन्तश्चेमे भावा इत्यनुमानात्सर्वार्थानां क्षणिकत्वसिद्धेरन्वयदृष्टिः सादृश्याद्भ्रान्तिरिति शङ्कते —

सादृश्यादिति ।

प्रत्यभिज्ञासिद्धस्थाय्यर्थविरुद्धं क्षणिकार्थबोधिलिङ्गमनुष्णतानुमानवन्न मानमिति दूषयति —

नेत्यादिना ।

सादृश्यादीत्यादिशब्देन प्रत्यभिज्ञाभ्रान्तित्वादि गृह्यते ।

प्रत्यक्षात्कारणैक्यं गम्यते । अनुमानात्तद्भेदः । अतो द्वयोर्विरुद्धत्वस्याव्यभिचारित्वान्नाध्यक्षेणानुमानबाधो वैपरीत्यसंभवादित्याशङ्क्याऽऽह —

नचेति ।

प्रत्यभिज्ञामुपजीव्यक्षणिकत्वानुमानाप्रवृत्तावप्युजीव्यतीयत्वात्तत्प्राबल्यादुपजीवकजातीयकमुक्तानुमानं दुर्बलं तद्बाध्यमित्यर्थः ।

प्रत्यभिज्ञा स्वार्थे स्वतो न मानं बुद्ध्यन्तरसंवादादेव बुद्धीनां मानत्वस्य बौद्धैरिष्टत्वात् । न च बुद्ध्यन्तरं स्थाययित्वसाधकमस्तीति प्रत्यभिज्ञायमानस्यापि क्षणिकत्वमित्याशङ्क्याऽऽह —

सर्वत्रेति ।

प्रसंगमेव प्रकटयति —

यदि चेति ।

क्षणिकत्वादिबुद्धेरपि स्वार्थे स्वतो मानत्वाभावात्तादृग्बुद्ध्यन्तरापेक्षायां तस्यापि तथात्वेनानवस्थानाद्बुद्धेः स्वतःप्रामाण्यमुपेयम् । तथा च प्रत्यभिज्ञानं सर्वं तथैवाबाधादित्यर्थः ।

किं च प्रत्यभिज्ञाया भ्रान्तित्वं वदता स्वरूपानपह्नवात्तदिदम्बुद्ध्योः सामानाधिकरण्येन संबन्धो वाच्यः, स च वक्तुं न शक्यते क्षणद्वयसंबन्धिनो द्रष्टुरभावादित्याह —

तदिदमिति ।

असति संबन्धे बुद्ध्योः सादृश्यात्तद्बुद्धिरिति शङ्क्यते —

सादृश्यादिति ।

तयोः स्वसंवेद्यत्वाद्ग्राहकान्तरस्य चाभावान्न सादृश्यसिद्धिरिति दूषयति —

न तदिदम्बुद्ध्योरिति ।

तथाऽपि किमिति सादृस्यासिद्धिरित्याशङ्क्याऽऽह —

असति चेति ।

सादृश्यासिद्धिमभ्युपेत्य शङ्कते —

असत्येवेति ।

यत्र सत्येवार्थे धीस्तत्रैव साधकपेक्षा नान्यत्रेति भावः ।

तत्र बाह्यार्थवादिनं प्रत्याह —

न तदिदम्बुद्ध्योरिति ।

विज्ञानवाद्याह —

असदिति ।

तथा सत्यनालम्बनं क्षणिकविज्ञानमित्यस्यापि ज्ञानस्यातद्विषयतया विज्ञानवादासिद्धिरित्याह —

नेति ।

शून्यवाद्याह —

तदपीति ।

सर्वा धीरसद्विषयेत्येषा धीरसद्विषया स्यात्ततश्च सर्वबुद्धेरसद्विषयत्वासिद्धिरिति दूषयति —

नेत्यादिना ।

परपक्षासंभवात्तत्प्रत्यभिज्ञायाः स्थायिहेतुसिद्धौ दृष्टान्तस्य साध्यवैकल्यं परिहृत्यावान्तरप्रकृतमुपसंहरति —

तस्मादिति ।

संप्रति कारणसत्त्वानुमानं निगमयति —

अत इति ।