कार्यकारणयोर्द्वयोरपि प्रागुत्पत्तेः सत्त्वमनुमेयमिति प्रतिज्ञाय कारणास्तित्वं प्रपञ्चितमिदानीं कार्यास्तित्वानुमानं दर्शयति —
कार्यस्य चेति ।
प्रागुत्पत्तेः सद्भावः प्रसिद्ध इति चकारार्थः ।
प्रतिज्ञाभागं विभजते —
कार्यस्येति ।
हेतुभागमाक्षिपति —
कथमिति ।
अभिव्यक्तिर्लिङ्गमस्येति व्युत्पत्त्या कथमभिव्यक्तिलिङ्गत्वादिति कार्यसत्त्वे हेतुरुच्यते सिद्धे हि सत्त्वेऽभिव्यक्तिर्लिङ्गमस्येति सिद्ध्यति तद्बलाच्च सत्त्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः ।
संप्रतिपन्नयाऽभिव्यक्त्या विप्रतिपन्नं सत्त्वं साध्यते तन्नान्योन्याश्रयत्वमिति परिहरति —
अभिव्यक्तिरिति ।
कथं तर्हीहानुमानं प्रयोक्तव्यमित्याशङ्क्य प्रथमं व्याप्तिमाह —
यद्धीति ।
यदभिव्यज्यमानं तत्प्रागभिव्यक्तेरस्ति यथा तमोन्तःस्थं घटादीत्यर्थः ।
संप्रत्यनुमिनोति —
तथेति ।
विमतं प्रागभिव्यक्तेः सत् अभिव्यक्तिविषयत्वात् यद्ध्यभिव्यज्यते तत्प्राक्सत्संप्रतिपन्नवदित्यर्थः ।
ननु तमोन्तःस्थो घटोऽभिव्यञ्जकसामीप्यादभिव्यज्यते न तत्र प्राक्कालिकं सत्त्वं प्रयोजकमित्याशङ्क्याऽऽह —
न हीति ।
उक्तेऽनुमाने कार्यस्य सदोपलब्धिप्रसंगं विपक्षे बाधकमाशङ्कते —
नेत्यादिना ।
उक्तानुमाननिषेधो नञर्थः । अविद्यमानत्वाभावादिति च्छेदः ।
अनुमाने बाधकोपन्यासं विवृणोति —
न हीति ।
वर्तमानवदतीतमागामि च घटादि सदेव चेदुपलब्धिसामग्र्यां सत्यां तद्वत्प्राग्जनेर्नाशाच्चोर्ध्वमुपलभ्येत न चैवमुपलभ्यते तस्मादयुक्तं कार्यस्य सदा सत्त्वमित्यर्थः । मृत्पिण्डग्रहणं विरोधिकार्यान्तरोपलक्षणार्थम् । असन्निहिते सतीति च्छेदः ।
न तावद्विद्यमानत्वमात्रं कार्यस्य सदोपलम्भापादकं सतोऽपि घटादेरभिव्यक्त्यनभिव्यक्त्योरुपलब्धत्वादिति समाधत्ते —
नेति ।
अभिव्यक्तिसामग्रीसत्त्वं त्वभिव्यक्तिसाधकं न तु सतस्तत्सामग्रीनियमोऽस्तीत्यभिप्रेत्याऽऽह —
द्विविधत्वादिति ।
उत्पन्नस्य कुड्याद्यावरणमनुत्पन्नस्य विशिष्टं कारणमिति द्वैविध्यमेव प्रतिज्ञापूर्वकं साधयति —
घटादीति ।
यदोपलभ्यमानकारणावयवानां कार्यान्तराकारेण स्थितिस्तदा नेदं कार्यमुपलभ्यते तत्रान्यथा चोपलभ्यत इत्यन्वयव्यतिरेकसिद्धं कारणस्य कार्यान्तररूपेण स्थितस्य कार्यावरकत्वमिति द्रष्टव्यम् ।
विशिष्टस्य कारणस्याऽऽवरकत्वसिद्धौ सिद्धमर्थमाह —
तस्मादिति ।
प्राक्कार्यास्तित्वे सिद्धे सदा तदुपलब्धिप्रसंगबाधकं निराकृत्य नष्टो घटो नास्तीत्यादिप्रयोगप्रत्ययभेदानुपपत्तिं बाधकान्तरमाशङ्क्याऽऽह —
नष्टेति ।
कपालादिना तिरोभावे नष्टव्यवहारः पिण्डाद्यावरणभङ्गेनाभिव्यक्तावुत्पन्नव्यवहारो दीपादिना तमोनिरासेनाभिव्यक्तौ भावव्यवहारः पिण्डादिना तिरोभावेऽभावव्यवहारः । तदेवं कार्यस्य सदा सत्त्वेऽपि प्रयोगप्रत्ययभेदसिद्धिरित्यर्थः ॥
पिण्डादि न घटाद्यावरणं तेन समानदेशत्वात् । यद्यस्याऽऽवरणं न तत्तेन समानदेशं यथा कुड्यादीति शङ्कते —
पिण्डेति ।
व्यतिरेक्यनुमानं विवृणोति —
तम इत्यादिना ।
अनुमानफलं निगमयति —
तस्मादिति ।
किमिदं समानदेशत्वं किमेकाश्रयत्वं किंवैककारणत्वमिति विकल्प्याऽऽद्यं विरुद्धत्वेन दूषयति —
नेत्यादिना ।
क्षीरेण संकीर्णस्योदकादेराव्रियमाणस्येति यावत् ।
द्वितीयमुत्थापयति —
घटादीति ।
यस्येदं कार्यं तस्मिन्मृदात्मनि तेषामवस्थानात्तद्वत्तेषामनावरणत्वमित्यर्थः घटावस्थमृन्मात्रवृत्तिकपालादेर्घटानावरणत्वमिष्टमेवेति सिद्धसाध्यता ।
अव्यक्तघटावस्थमृद्वृत्तिकपालादेरनावरणत्वसाधने हेत्वसिद्धिर्घटस्य कपालादेश्चाऽऽश्रयमृदवयवभेदादिति दूषयति —
न, विभक्तानामिति ।
विद्यमानस्यैवाऽऽवृतत्वादनुपलब्धिश्चेदावरणतिरस्कारे यत्नः स्यान्न घटादेरुत्पत्तावतोऽनुभवविरोधः सत्कार्यवादिनः स्यादिति शङ्कते —
आवरणेति ।
तदेव प्रपञ्चयति —
पिण्डेति ।
यत्राऽवृतं वस्तु व्यज्यते तत्राऽऽवरणभङ्ग एव यत्न इति व्याप्त्यभावान्नानुभवविरोधोऽस्तीति दूषयति —
नानियन्मादिति ।
अनियमं साधयति —
न हीति ।
तमसाऽवृते घटादौ दीपोत्पत्तौ यत्नोऽस्तीत्यत्र चोदयति —
सोऽपीति ।
अनुभवविरोधमाशङ्क्योक्तमेव व्यनक्ति —
दीपादीति ।
दीपस्तमस्तिरयति चेत्कथं कुम्भोपलब्धिरत आह —
तस्मिन्निति ।
तत्र हेतुमाह —
न हीति ।
अनुभवमनुसृत्य परिहरति —
नेत्यादिना ।
किमिदानीमावरणभङ्गे प्रयत्नो नेत्येव नियमोऽस्तु नेत्याह —
क्वचिदिति ।
अनियमं निगमयन्ननुभवविरोधाभावमुपसंहरति —
तस्मादिति ।
किञ्चाभिव्यञ्जकव्यापारे सति नियमेन घटो व्यज्यते तदभावे नेत्यन्वयव्यतिरेकावधारितो घटार्थः ।
कुलालादिव्यापारस्तस्यार्थवत्त्वार्थमभिव्यक्त्यर्थ एव प्रयत्नो वक्तव्यः आवरणभङ्गस्त्वार्थिक इत्याह —
नियमेति ।
उक्तं स्मारयन्नेतदेव विवृणोति —
कारण इत्यादिना ।
आवृत्तिभङ्गार्थे यत्ने यतो घटानुपलब्धिरतस्तदुपलब्ध्यर्थत्वेन नियतः सन्यत्नः सफलः स्यादिति फलितमाह —
तस्मादिति ।
प्रकृतमभिव्यक्तिलिङ्गकमनुमानं निर्दोषत्वादादेयं मन्वानस्तत्फलमुपसंहरति —
तस्मात्प्रागिति ।
कार्यस्य सत्त्वे युक्त्यन्तरमाह —
अतीतेति ।
विमतं सदर्थं प्रमाणत्वात्संप्रतिपन्नवदित्यर्थः ।
तदेवानुमानं विशदयति —
अतीत इति ।
अत्रैवोपपत्त्यन्तरमाह —
अनागतेति ।
आगामिनि घटे तदर्थित्वेन लोके प्रवृत्तिर्दृष्टा न चात्यन्तासति सा युक्ता तेन तस्यासद्विलक्षणतेत्यर्थः ।
किञ्च योगिनामीशस्य चातीतादिविषयं प्रत्यक्षज्ञानमिष्टं तच्च विद्यमानोपलम्भनमतो घटस्य सदा सत्त्वमित्याह —
योगिनां चेति ।
ईश्वरसमुच्चयार्थश्चकारः । भविष्यद्ग्रहणमतीतोपलक्षणार्थम् । ऐश्वरं यौगिकं चेति द्रष्टव्यम् ।
प्रसंगस्येष्टत्वमाशङ्क्याऽऽह —
न चेति ।
अधिकबलं हि बाधकं न चानतिशयादैशादिज्ञानादधिकबलं ज्ञानं दृष्टमतो बाधकाभावान्न तन्मिथ्येत्यर्थः ।
तस्य सम्यक्त्वेऽपि पूर्वोत्तरकालयोरसद्घटविषयत्वं किं न स्यादित्याशङ्क्याऽऽह —
घटेति ।
पूर्वोत्तरकालयोरिति शेषः ।
घटस्य प्रागसत्त्वाभावे हेत्वन्तरमाह —
विप्रतिषेधादिति ।
स हि कारकव्यापारदशायामसन्निति कोऽर्थः किं तस्य भविष्यत्त्वादि तदा नास्ति किं वाऽर्थक्रियासामर्थ्यम् ? आद्ये व्याहतिं साधयति —
यदीति ।
घटार्थं कुलालादिषु व्याप्रियमाणेषु सत्सु घटो भविष्यतीति प्रमाणेन निश्चितं चेत्कथं तद्विरुद्धं प्रागसत्त्वमुच्यते । कारकव्यापारावच्छिन्नेन हि कालेन घटस्य भविष्यत्त्वेनातीतत्वेन वा भविष्यत्यभूदिति वा संबन्धो विवक्ष्यते । तथा च तस्मिन्नेव काले घटस्य तथाविधसत्त्वनिषेधे व्याहतिरतिव्यक्तेत्यर्थः ।
तामेवाभिनयति —
भविष्यन्निति ।
यो हि कारकव्यापारदशायां भविष्यत्त्वादिरूपेणास्ति स तदा नास्तीत्युक्ते तस्य तस्यामवस्थायां तेनाऽऽकारेणासत्त्वमर्थो भवति । तथा च घटो यदा येनाऽऽकारेणास्ति स तदा तेनाऽऽकारेण नास्तीति व्याहतिरित्यर्थः ।
द्वितीयमुत्थापयति —
अथेति ।
प्रागुत्पत्तेर्घटार्थं कुलालादिषु प्रवृत्तेषु सोऽसन्नित्यसच्छब्दार्थं स्वयमेव विवेचयति —
तत्रेत्यादिना ।
तत्र सिद्धान्ती ब्रूते —
न विरुध्यत इति ।
कथं पुनः सत्कार्यवादिनस्तदसत्त्वमविरुद्धमित्याह —
कस्मादिति ।
प्रागुत्पत्तेस्तुच्छव्यावृत्तिरूपं सत्त्वं घटस्य सिषाधयिषितं तच्चेद्भवानपि तस्य सदातनमनर्थक्रियासामर्थ्यं निषेधन्ननुमन्यते नाऽऽवयोर्विप्रतिपत्तिरित्यभिप्रेत्याऽऽह —
स्वेन हीति ।
ननु त्वन्मते सर्वस्य मृन्मात्रत्वाविशेषात्पिण्डादेर्वर्तमानता घटस्य स्यात्तस्य चातीतता भविष्यत्ता च पिण्डकपालयोः स्यादिति साङ्कर्यमाशङ्क्याऽऽह —
न हीति ।
व्यवहारदशायां यथाप्रतिभासमनिर्वाच्यसंस्थानभेदाश्रयणादित्यर्थः ।
प्रागवस्थायां घटस्यार्थक्रियासामर्थ्यलक्षणसत्त्वनिषेधे विरोधाभावमुपपादितमुपसंहरति —
तस्मादिति ।
उक्तमेव व्यतिरेकद्वारा विवृणोति यदीत्यादिना । यदा कारकाणि व्याप्रियन्ते तदा घटोऽसन्निति तस्य भविष्यत्त्वादिरूपं तत्काले निषिध्यते चेदुक्तविधया व्याघातः स्यात् । न च तस्य तस्मिन्काले भविष्यत्त्वादिरूपं तत्त्वं निषिध्यते । अर्थक्रियासामर्थ्यस्यैव निषेधात्तन्न तद् विरोधावकाशोऽस्तीत्यर्थः ।
न हि पिण्डस्येत्यादिना साङ्कर्यसमाधिरुक्तस्तमिदानीं सर्वतन्त्रसिद्धान्ततया स्फुटयति —
न चेति ।
भविष्यत्त्वमतीतत्वं चेति शेषः ।
कार्यस्य प्रागुत्पत्तेर्नाशाच्चोर्ध्वमसत्त्वाभावे हेत्वन्तरमाह —
अपि चेति ।
तदेवानुमानतया स्पष्टयितुं दृष्टान्तं साधयति —
चतुर्विधानामिति ।
षष्ठी निर्धारणे ।
घटान्योन्याभावस्य घटादन्यत्वे तत्राप्यन्योन्याभावान्तराङ्गीकारादनवस्थेत्याशङ्क्याऽऽह —
दृष्ट इति ।
न यौक्तिकमन्यत्वं किन्तु घटो न भवति पट इति प्रातीतिकं तथा च घटाभावः पटादिरेवेति पटादेस्ततोऽन्यत्वाद्घटान्योन्याभावस्यापि घटादन्यत्वसिद्धिरित्यर्थः ।
ननु घटाभावः पटादिरित्ययुक्तं विशेषणत्वेन घटस्यापि पटादावन्तर्भावप्रसंगादिति चेन्मैवं दृष्टपदेन निराकृतत्वात् । घटाभावस्य पटादित्वाभावेऽपि न स्वातन्त्र्यमभावत्वविरोधात् । नापि तदन्योन्याभावः पटादेर्धर्मः संसर्गाभावान्तर्भावापातात् । न च स घटस्यैव धर्मः स्वरूपं वा घटो घटो न भवतीति प्रतीत्यभावादित्यभिप्रेत्याऽऽह —
न घटस्वरूपमेवेति ।
यदि प्रतीतिमाश्रित्य घटान्योन्याभावः पटादिरिष्यते तदा पटादेर्भावस्याभावत्वविधानाद्व्याघात इत्याशङ्क्याऽऽह —
न चेति ।
स्वरूपपररूपाभ्यां सर्वं सदसदात्मकमिति हि वृद्धाः । तथा च पटादेः स्वेनाऽत्मना भावत्वं घटतादात्म्याभावात्तदभावत्वं चेत्यव्याहतिरित्यर्थः ।
सिद्धे प्रतीत्यनुसारिणि दृष्टान्ते विवक्षितमनुमानमाह —
एवमिति ।
किं च तेषामभावानां घटाद्भिन्नत्वात्पटवदेव सत्त्वमेष्टव्यमित्यनुमानान्तरमाह —
तथेति ।
अनुमानफलं कथयति —
एवं चेति ।
तेषां घटादन्यत्वे तस्यानाद्यनन्तत्वमद्वयत्वं सर्वात्मत्वं च प्राप्नोति । सत्त्वे च तेषामभावाभावान्न भावाभावयोर्मिथः संगतिरित्यर्थः ।
ननु प्रसिद्धोऽभावो भाववदशक्योऽपह्नोतुमिति चेत्स तर्हि घटस्य स्वरूपमर्थान्तरं वेति विकल्प्याऽऽद्यमनूद्य दूषयते —
अथेत्यादिना ।
प्रागभावादेर्घटत्वेऽपि संबन्धं कल्पयित्वा घटस्येत्युक्तिरिति शङ्कते —
अथेति ।
संबन्धस्य कल्पितत्वे संबन्धिनोऽप्यभावस्य तथात्वं स्यादिति दूषयति —
तथाऽपीति ।
यत्र संबन्धं कल्पयित्वा व्यपदेशस्तत्र न वास्तवो भेदो यथा राहुशिरसोस्तथाऽत्रापि कल्पिते संबन्धे भेदस्य तथात्वाद्वास्तवत्त्वं संबन्धिनोरन्यतरस्य स्यात् । न चाभावस्तथा सापेक्षत्वादतो घटस्तथेत्यर्थः ।
कल्पान्तरमनुवदति —
अथेति ।
अनुमानफलं वदद्भिर्घटस्य कारणात्मना ध्रुवत्ववचनेन समाहितमेतदित्याह —
उक्तोत्तरमिति ।