बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीदशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वं कं ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥
किंलक्षणेन मृत्युनावृतमित्यत आह — अशनायया, अशितुमिच्छा अशनाया, सैव मृत्योर्लक्षणम् , तया लक्षितेन मृत्युना अशनायया । कथमशनाया मृत्युरिति, उच्यते — अशनाया हि मृत्युः । हि - शब्देन प्रसिद्धं हेतुमवद्योतयति । यो ह्यशितुमिच्छति सोऽशनायानन्तरमेव हन्ति जन्तून् । तेनासावशनायया लक्ष्यते मृत्युरिति, अशनाया हीत्याह । बुद्ध्यात्मनोऽशनाया धर्म इति स एष बुद्ध्यवस्थो हिरण्यगर्भो मृत्युरित्युच्यते । तेन मृत्युनेदं कार्यमावृतमासीत् , यथा पिण्डावस्थया मृदा घटादय आवृताः स्युरिति तद्वत् । तन्मनोऽकुरुत, तदिति मनसो निर्देशः ; स प्रकृतो मृत्युः वक्ष्यमाणकार्यसिसृक्षया तत् कार्यालोचनक्षमम् , मनःशब्दवाच्यं सङ्कल्पादिलक्षणमन्तःकरणम् , अकुरुत कृतवान् । केनाभिप्रायेण मनोऽकरोदिति, उच्यते — आत्मन्वी आत्मवान् स्यां भवेयम् ; अहमनेनात्मना मनसा मनस्वी स्यामित्यभिप्रायः । सः प्रजापतिः, अभिव्यक्तेन मनसा समनस्कः सन् , अर्चन् अर्चयन्पूजयन् आत्मानमेव कृतार्थोऽस्मीति, अचरत् चरणमकरोत् । तस्य प्रजापतेः अर्चतः पूजयतः आपः रसात्मिकाः पूजाङ्गभूताः अजायन्त उत्पन्नाः । अत्राकाशप्रभृतीनां त्रयाणामुत्पत्त्यनन्तरमिति वक्तव्यम् , श्रुत्यन्तरसामर्थ्यात् , विकल्पासम्भवाच्च सृष्टिक्रमस्य । अर्चते पूजां कुर्वते वै मे मह्यं कम् उदकम् अभूत् इति एवममन्यत यस्मान्मृत्युः, तदेव तस्मादेव हेतोः अर्कस्य अग्नेरश्वमेधक्रत्वौपयोगिकस्य अर्कत्वम् ; अर्कत्वे हेतुरित्यर्थः । अग्नेरर्कनामनिर्वचनमेतत् — अर्चनात्सुखहेतुपूजाकरणादप्सम्बन्धाच्चाग्नेरेतद्गौणं नामार्क इति । यः एवं यथोक्तम् अर्कस्यार्कत्वं वेद जानाति, कम् उदकं सुखं वा, नामसामान्यात् , ह वै इत्यवधारणार्थौ, भवत्येवेति, अस्मै एवंविदे एवंविदर्थं भवति ॥

असत्कार्यवादे दोषान्तरमाह —

किञ्चेति ।

स्वहेतुसंबन्धः सत्तासंबन्धो वा जन्मेति तार्किकाः । न च प्रागुत्पत्तेरसतः संबन्धस्तस्य सतोर्वृत्तेरित्यर्थः ।

युतसिद्धयो रज्जुघटयोर्मिथःसंयोगे पृथक्सिद्धिरपेक्ष्यतेऽयुतसिद्धानां परस्परपरिहारेण प्रतीत्यनर्हाणां कार्यकारणादीनां मिथोयोगे पृथक्सिद्ध्यभावो न दोषमावहतीति शङ्कते —

अयुतेति ।

परिहरति —

नेति ।

उक्तमेव स्फोरयति —

भावेति ।

व्यवहारदृष्ट्या कार्यकारणयोः साधितां तुच्छव्यावृत्तिमुपसम्हरति —

तस्मादिति ।

नैवेहेत्यत्र सर्वस्य प्रागुत्पत्तेरसत्त्वशङ्का मृत्युनेत्यादिवाक्यव्याख्यानेन निरस्ता ।

संप्रति मृत्युशब्दस्य अर्थान्तरे रूढत्वान्न तेनाऽवरणं जगतः संभवतीत्याक्षिपति —

किंलक्षणेनेति ।

अनभिव्यक्तनामरूपमध्यक्षाद्ययोग्यमपञ्चीकृतपञ्चमहाभूतावस्थातिरिक्तं मायारूपं साभासं मृत्युरित्युच्यते ।

न हि सर्वं कार्यमवान्तरकारणादुत्पत्तुमर्हतीत्यभिप्रेत्याह —

अत आहेति ।

कथं यथोक्तो मृत्युरशनायया लक्ष्यते । न हि मूलकारणस्याशनायादिमत्त्वम् । अशनायापिपासे प्राणस्येति स्थितेरिति शङ्कते —

कथमिति ।

मूलकारणस्यैव सूत्रत्वं प्राप्तस्य सर्वसंहर्तृत्वान्मृत्युत्वे सति वाक्यशेषोपपत्तिरिति परिहरति —

उच्यत इति ।

प्रसिद्धमेव प्रकटयति —

यो हीति ।

तथापि प्रसिद्धं मृत्युं हित्वा कथं हिरण्यगर्भोपादानमत आह —

बुद्ध्यात्मना इति ।

उक्तं हेतुं कृत्वा फलितमाह —

इति स इति ।

ननु न तेन जगदाव्रियते मूलकारणेनैव तदावरणात्तत्कथं वाक्योपक्रमोपपत्तिरत आह —

तेनेति ।

ननु हिरण्यगर्भे प्रकृते कथं स्रष्टरि नपुंसकप्रयोगस्तत्राऽऽह —

तदिति मनस इति ।

वाक्यार्थमधुना कथयति —

स प्रकृत इति ।

भूतसृष्ट्यतिरेकेण भौतिकस्य मनसः सृष्टिरयुक्तेति मत्वा पृच्छति —

केनेति ।

अपञ्चीकृतानां भूतानां हिरण्यगर्भदेहभूतानां प्रागेवालब्धात्मकत्वात्तेभ्यो मनोव्यक्तिरविरुद्धेति मन्वानो ब्रूते —

उच्यत इति ।

स्वात्मवत्त्वस्य स्वाभाविकत्वान्न तदाशंसनीयमित्याशङ्क्य वाक्यार्थमाह —

अहमिति ।

मनसो व्यक्तस्योपयोगमाह —

स प्रजापतिरिति ।

ननु तैत्तिरीयकाणामाकाशादिसृष्टिरुच्यते तत्कथमिहापामादौ सृष्टिवचनं तत्राऽऽह —

अत्रेति ।

सप्तम्या हिरण्यगर्भकर्तृकसर्गोक्तिः । त्रयाणां पञ्चीकृतानामिति यावत् ।

नन्वाकाशाद्या तैत्तिरीये सृष्टिरिह त्वबाद्येत्युदितानुदितहोमवद्विकल्पो भविष्यति । नेत्याह —

विकल्पेति ।

पुरुषतन्त्रत्वात्क्रियाया युक्तो विकल्पः सिद्धेर्थे तु पुरुषानधीने नासौ संभवत्यतः सृष्टिर्विवक्षिता चेदाकाशाद्येव सा युक्ता विद्याप्रधानत्वात्तु नाऽऽदरः सृष्टाविति भावः ।

अपामादौ सृष्टिवचनमनुपयुक्तं न स्रष्टुस्ताभिरेव पूजा सिद्ध्यतीत्याशङ्क्याऽऽश्वमेधिकाग्नेरर्कनामसिद्ध्यर्थं तदुपयोगमुपन्यस्यति —

अर्चत इति ।

कोऽसौ हेतुरित्यपेक्षायामर्चतिपदावयवस्यार्कशब्देन संगतिरिति मन्वानः सन्नाह —

अर्कत्वमिति ।

एवं मृत्योरर्कत्वेऽपि कथमग्नेरर्कत्वमित्याशङ्क्य मृत्युसंबन्धादित्याह —

अग्नेरिति ।

किमर्थमग्नेरर्कनामनिर्वचनमित्याशङ्क्यापूर्वसंज्ञायोगस्य फलान्तराभावादुपासनार्थमित्याह —

अग्नेरिति ।

निर्वचनमेव स्फोरयति —

अर्चनादिति ।

फलवत्त्वाच्च यथोक्तनामवतोऽग्नेरुपास्तिरत्र विवक्षितेत्याह —

य एवमिति ॥१॥