अपामर्कत्वश्रवणान्नाग्नेरर्कत्वमिति शङ्कते —
कः पुनरिति ।
प्रकरणमाश्रित्य तासामर्कत्वमौपचारिकमित्युत्तरमाह —
उच्यत इति ।
तास्वन्तर्हिरण्मयमण्डं संबभूवेति श्रुतिमनुसरन्नुपचारे हेत्वन्तरमाह —
अप्सु चेति ।
मुख्यमर्कत्वमपां वारयति —
न पुनरिति ।
ननु ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (जै. सू. ३ । ३ । १४) इतिन्यायात्प्रकरणादापो वा अर्क इति वाक्यं बलवदित्याशङ्क्य वाक्यसहकृतं प्रकरणमेव केवलवाक्याद्बलवदित्याशयवानाह —
वक्ष्यति चेति ।
भूतान्तरसहितास्वप्सु कारणभूतासु पृथिवीद्वारा पार्थिवोऽग्निः प्रतिष्ठित इत्युक्तमिदानीं पृथिवीसर्गं ताभ्यो दर्शयति —
तदित्यादिना ।
अप्सु भूतान्तरसहितासूत्पन्नासु सतीष्विति सप्तम्यर्थः ।
शर इव शर इत्युक्तमेव व्याचष्टे —
दध्न इवेति ।
संघाते सहकारिकारणमाह —
तेजसेति ।
यत्तदिति पदे नपुंसकत्वेन श्रुते कथं तयोः शरशब्देन कारणस्योच्छूनत्ववाचिना पुंल्लिङ्गेनान्वयस्तत्राऽऽह —
लिङ्गव्यत्ययेनेति ।
उक्तानुपपत्तिद्योतनार्थो वाशब्दः ।
व्यत्ययेनान्वयमेवाभिनयति —
योऽपामिति ।
वाक्यतात्पर्यमाह —
ताभ्य इति ।
स्थूलप्रपञ्चात्मकविराजः सूक्ष्मप्रपञ्चात्मकसूत्रादुत्पत्तिं वक्तुं पातनिकामाह —
तस्यामिति ।
उक्तेऽर्थे लोकप्रसिद्धिमनुकूलयति —
सर्वो हीति ।
इदानीं विराडुत्पत्तिमुपदिशति —
किं तस्येत्यादिना ।
अग्निशब्दार्थं स्फुटयति —
सोऽण्डस्येति ।
तस्य प्रथमशरीरित्वे मानमाह —
स वा इति ॥२॥