विराजो ध्यानार्थमवच्छेदभेदमाह —
स चेति ।
कोऽस्य त्रेधाभावस्य कर्तेति वीक्षायामाह —
स्वयमेवेति ।
कथमेकस्य त्रिधात्वमन्यथा वा कथमेकत्वमित्याह —
कथमिति ।
मृदो घटशरावाद्यनेकरूपत्ववद्विराजो बहुरूपत्वं साधयति —
आहेत्यादिना ।
कथमग्निं तृतीयमित्यश्रुतं कल्प्यते तत्राऽऽह —
सामर्थ्यस्येति ।
वाय्वादित्ययोरिवाग्नेरपि संख्यापूरणत्वशक्तेरविशिष्टत्वादग्निं तृतीयमकुरुतेत्युपसंख्यायते स त्रेधाऽऽत्मानमिति चोपक्रमादित्यर्थः ।
ननु किमयं त्रेधाभावो विराट्स्वरूपोपमर्देन क्रियते ? न हि स तस्मिन्सत्येव युक्तो विरोधादित्याह —
स एष इति ।
यथा तन्त्ववस्थानुपमर्दनेन मूलकारणात्पटो जायते तथा सर्वेषां भूतानां प्राणतया साधारणोऽप्ययं स्वेनैव स्वतन्त्रेणानुगतेन मृत्युरूपेण त्रेधाविभागस्य कर्ता । न चैकस्य बहुरूपत्वविरोधो मायाविवदुपपत्तेरित्यर्थः ।
तस्य प्राचीत्यादेस्तात्पर्यमाह —
तस्येति ।
उक्तानि विशेषणानि प्रकरणाविच्छेदार्थमनूद्यन्ते ।
अग्निविषयं दर्शनमिदानीमुच्यते चेन्नैवेहेत्यादि पूर्वोक्तमनर्थकमित्याशङ्क्याऽऽह —
सर्वा हीति ।
स्तुतिमेवाभिनयति —
इत्थमिति ।
कर्माङ्गस्याग्नेः संस्कर्तव्यत्वाच्चित्याग्निशिरसि प्राचीदृष्टिः कर्तव्येत्याह —
तस्येति ।
आरोपे सादृश्यमाह —
विशिष्टत्वेति ।
शिरसोऽनन्तरभावित्वात्तद्बाह्वोरैशान्यादिदृष्टिमाह —
असौ चेति ।
कथमीर्मशब्दो बाहुवाचीत्याशङ्क्य तदुत्पत्तिमाह —
ईरयतेरिति ।
गत्यर्थयोगादीर्मशब्दो बाहुमधिकरोतीत्यर्थः ।
तत्पुच्छादिषु प्रतीच्यादिदृष्टीरध्यस्यति —
अथेत्यादिना ।
चित्यस्याग्नेः शिरसि बाह्वोः प्राच्यादिदृष्टिकरणानन्तरमित्यर्थः । सक्थिपदं पृष्ठनिष्ठोन्नतास्थिद्वयविषयम् । उभयशब्देन प्राचीप्रतीचीद्वयं गृह्यते ।
उरसि पृथिवीदृष्टिमाह —
इयमिति ।
उपास्यमग्निमुक्तमनुवदति —
स एष इति ।
तस्योपासनार्थमेवाप्सु प्रतिष्ठितत्वं गुणमुपदिशति —
अग्निरिति ।
भूतान्तरसहितानामपां सर्वलोककारणत्वादशेषलोकात्मकोऽग्निस्तत्र प्रतिष्ठितः संभवतीत्यत्र श्रुत्यन्तरं संवादयति —
एवमिति ।
यथैतेषु लोकेषु सर्वं कार्यं प्रतिष्ठितं तथेति यावत् । लोकशब्देन स्थूलानां भूतानां सन्निवेशविशेषा गृह्यन्ते । अप्सु भूतान्तरसहितासु कारणभूतास्विति यावत् ।
फलश्रुतिं व्याचष्टे —
यत्रेति ।
अथोपास्तिफलमपपुनर्मृत्युं जयतीत्यादिना वक्ष्यते ।
किमिदमस्थाने फलसंकीर्तनमत आह —
गुणेति ॥३॥