उत्तरग्रन्थमवतार्य तस्य पूर्वग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —
सोऽकामयतेत्यादिना ।
अवान्तरव्यापारमन्तरेण कर्तृत्वानुपपत्तिरिति मत्वा पृच्छति —
स किं व्यापार इति ।
कामनादिरूपमवान्तरव्यापारमुत्तरवाक्यावष्टम्भेन दर्शयति —
उच्यत इति ।
कामनाकार्यं मनःसंयोगमुपन्यस्यति —
स एवमिति ।
कोऽयं मनसा सह वाचो द्वन्द्वभावस्तत्राऽऽह —
मनसेति ।
वाक्यार्थमेव स्फुटयति —
त्रयीविहितमिति ।
वेदोक्तसृष्टिक्रमालोचनं प्रजापतेर्नेदं प्रथमं संसारस्यानादित्वादिति वक्तुमनुशब्दः ।
“सोऽकामयत” इत्यादौ सर्वनाम्नोऽव्यवहितविराड्विषयत्वमाशङ्क्य परिहरति —
कोऽसावित्यादिना ।
कथं तया मृत्युर्लक्ष्यते तत्राऽऽह —
अशनायेति ।
किमिति तर्हि पुनरुक्तिरित्याशङ्क्याऽऽह —
तमेवेति ।
अन्यत्रानन्तरप्रकृते विराडात्मनीति यावत् ।
अवान्तरव्यापारान्तरमाह —
तदित्यादिना ।
प्रसिद्धं रेतो व्यावर्तयति —
ज्ञानेति ।
ननु प्रजापतेर्न ज्ञानं कर्म वा संभवति । तत्रानधिकारादित्याशङ्क्याऽऽसीदित्यस्यार्थमाह —
जन्मान्तरेति ।
वाक्यस्यापेक्षितं पूरयित्वा वाक्यान्तरमादाय व्याकरोति —
तद्भावेत्यादिना ।
ननु संवत्सरस्य प्रागेव सिद्धत्वान्न प्रजापतेस्तन्निर्माणेन तदात्मत्वमित्याशङ्क्योत्तरं वाक्यमुपादत्ते —
न ह पुरेति ।
तद्व्याचष्टे —
पूर्वमिति ।
प्रजापतेरादित्यात्मकत्वात्तदधीनत्वाच्च संवत्सरव्यवहारस्याऽऽदित्यात्पूर्वं तद्व्यवहारो नाऽऽसीदेवेत्यर्थः ।
कियन्तं कालमण्डरूपेण गर्भो बभूवेत्यपेक्षायामाह —
तमित्यादिना ।
अवान्तरव्यापारमनेकविधमभिधाय विराडुत्पत्तिमाकाङ्क्षाद्वारोपसंहरति —
यावानित्यादिना ।
केयं पूर्वमेव गर्भतया विद्यमानस्य विराजः सृष्टिस्तत्राऽऽह —
अण्डमिति ।
विराडुत्पत्तिमुक्त्वा शब्दमात्रस्य सृष्टिं विवक्षुर्भूमिकां करोति —
तमेवमिति ।
अयोग्येऽपि पुत्रभक्षणे प्रवर्तकं दर्शयति —
अशनायावत्त्वादिति ।
विराजो भयकारणमाह —
स्वाभाविक्येति ।
इन्द्रियं देवतां च व्यावर्तयति —
वाक्शब्द इति ॥४॥