बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्चर्चो यजूंषि सामानि च्छन्दांसि यज्ञान्प्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वं सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ ५ ॥
स ऐक्षत — सः, एवं भीतं कृतरवं कुमारं दृष्ट्वा, मृत्युः ऐक्षत ईक्षितवान् , अशनायावानपि — यदि कदाचिद्वा इमं कुमारम् अभिमंस्ये, अभिपूर्वो मन्यतिर्हिंसार्थः, हिंसिष्ये इत्यर्थः ; कनीयोऽन्नं करिष्ये, कनीयः अल्पमन्नं करिष्ये - इति ; एवमीक्षित्वा तद्भक्षणादुपरराम ; बहु ह्यन्नं कर्तव्यं दीर्घकालभक्षणाय, न कनीयः ; तद्भक्षणे हि कनीयोऽन्नं स्यात् , बीजभक्षणे इव सस्याभावः । सः एवं प्रयोजनमन्नबाहुल्यमालोच्य, तयैव त्रय्या वाचा पूर्वोक्तया, तेनैव च आत्मना मनसा, मिथुनीभावमालोचनमुपगम्योपगम्य, इदं सर्वं स्थावरं जङ्गमं च असृजत, यदिदं किञ्च यत्किञ्चेदम् ; किं तत् ? ऋचः, यजूंषि, सामानि, छन्दांसि च सप्त गायत्र्यादीनि — स्तोत्रशस्त्रादिकर्माङ्गभूतांस्त्रिविधान्मन्त्रान्गायत्र्यादिच्छन्दोविशिष्टान् , यज्ञांश्च तत्साध्यान् , प्रजास्तत्कर्त्रीः, पशूंश्च ग्राम्यानारण्यान्कर्मसाधनभूतान् । ननु त्रय्या मिथुनीभूतयासृजतेत्युक्तम् ; ऋगादीनीह कथमसृजतेति ? नैष दोषः ; मनसस्त्वव्यक्तोऽयं मिथुनीभावस्त्रय्या ; बाह्यस्तु ऋगादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्तीभावः सर्ग इति । सः प्रजापतिः, एवमन्नवृद्धिं बुद्ध्वा, यद्यदेव क्रियां क्रियासाधनं फलं वा किञ्चित् असृजत, तत्तदत्तुं भक्षयितुम् अध्रियत धृतवान्मनः ; सर्वं कृत्स्नं वै यस्मात् अत्ति, तत् तस्मात् अदितेः अदितिनाम्नो मृत्योः अदितित्वं प्रसिद्धम् ; तथा च मन्त्रः — ‘अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता’ (ऋ. १ । ५९ । १०) इत्यादिः ; सर्वस्यैतस्य जगतोऽन्नभूतस्य अत्ता सर्वात्मनैव भवति, अन्यथा विरोधात् ; न हि कश्चित्सर्वस्यैकोऽत्ता दृश्यते ; तस्मात्सर्वात्मा भवतीत्यर्थः ; सर्वमस्यान्नं भवति ; अत एव सर्वात्मनो ह्यत्तुः सर्वमन्नं भवतीत्युपपद्यते ; य एवमेतत् यथोक्तम् अदितेः मृत्योः प्रजापतेः सर्वस्यादनाददितित्वं वेद, तस्यैतत्फलम् ॥

इदानीमृगादिसृष्टिमुपदेष्टुं पातनिकां करोति —

स इत्यादिना ।

ईक्षणप्रतिबन्धकसद्भावं दर्शयति —

अशनायावानपीति ।

अभिपूर्वो मन्यतिरिति ।

रुद्रोऽस्य पशूनभिमन्येत नास्य रुद्रः पशूनभिमन्यत इत्यादि शास्त्रमत्र प्रमाणयितव्यम् ।

अन्नस्य कनीयस्त्वे का हानिरित्याशङ्क्याऽऽह —

बहु हीति ।

तथाऽपि विराजो भक्षणे का क्षतिस्तत्राऽह —

तद्भक्षणे हीति ।

तस्यान्नात्मकत्वात्तदुत्पादकत्वाच्चेति शेषः ।

कारणनिवृत्तौ कार्यनिवृत्तिरित्यत्र दृष्टान्तमाह —

बीजेति ।

यथोक्तेक्षणानन्तरं मिथुनभावद्वारा त्रयीसृष्टिं प्रस्तौति —

स एवमिति ।

ननु विराजः सृष्ट्या स्थावरजङ्गमात्मनो जगतः सृष्टेरुक्तत्वात्किं पुनरुक्त्येत्याशयेन पृष्ट्वा परिहरति —

किं तदिति ।

गायत्र्यादीनीत्यादिपदेनोष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीछन्दांस्युक्तानि ।

केवलानां छन्दसां सर्गासंभवात्तदारूढानामृग्यजुःसामात्मनां मन्त्राणां सृष्टिरत्र विवक्षितेत्याह —

स्तोत्रेति ।

उद्गात्रादिना गीयमानमृग्जातं स्तोत्रं तदेव होत्रादिना शस्यमानं शस्त्रम् । स्तुतमनुशंसतीति हि श्रुतिः । यन्न गीयते न च शस्यतेऽध्वर्युप्रभृतिभिश्च प्रयुज्यते तदप्यत्र ग्राह्यमित्यभिप्रेत्याऽदिपदम् (यजूंषि) । अत एव त्रिविधानित्युक्तम् । अजादयो ग्राम्याः पशवो गवयादयस्त्वारण्या इति भेदः । कर्मसाधनभूतानसृजतेति संबन्धः ।

स मनसा वाचं मिथुनं समभवदित्युक्तत्वात्प्रागेव त्रय्याः सिद्धत्वान्न तस्याः सृष्टिः श्लिष्टेति शङ्कते —

नन्विति ।

व्यक्ताव्यक्तविभागेन परिहरति —

नेत्यादिना ।

इति मिथुनीभावसर्गयोरुपपत्तिरिति शेषः ।

अत्तृसर्गश्चान्नसर्गश्चेति द्वयमुक्तम् । इदानीमुपास्यस्य प्रजापतेर्गुणान्तरं निर्दिशति —

स प्रजापतिरित्यादिना ।

कथं मृत्योरदितिनामत्वं सिद्धवदुच्यते तत्राह —

तथा चेति ।

अदितेः सर्वात्मत्वं वदता मन्त्रेण सर्वकारणस्य मृत्योरदितिनामत्वं सूचितमिति भावः ।

मृत्योरदितित्वविज्ञानवतोऽवान्तरफलमाह —

सर्वस्येति ।

सर्वात्मनेति कुतो विशिष्यते तत्राऽऽह —

अन्यथेति ।

सर्वरूपेणावस्थानाभावे सर्वान्नभक्षणस्याशक्यत्वादित्यर्थः ।

विरोधमेव साधयति —

न हीति ।

फलस्योपासनाधीनत्वात्प्रजापतिमदितिनामानमात्मत्वेन ध्यायन्ध्येयात्मा भूत्वा तत्तद्रूपत्वमापन्नः सर्वस्यान्नस्यात्ता स्यादित्यर्थः ।

अन्नमन्नमेवास्य सदा न कदाचित्तदस्यात्तृ भवतीति वक्तुमनन्तरवाक्यमादत्ते —

सर्वमिति ।

अत एवेत्युक्तं व्यक्तीकरोति —

सर्वात्मनो हीति ॥५॥