उपास्तिविधौ सफले सति समाप्तिरेव ब्राह्मणस्योचिता किमुत्तरग्रन्थेनेत्याशङ्क्य प्रतीकमादाय तात्पर्यमाह —
सोऽकामयतेत्यादिना ।
तदेवाश्वमेधस्याश्वमेधत्वमित्येतदन्तं वाक्यमिदमा निर्दिश्यते । भूयोदक्षिणाकत्वादश्वमेधस्य भूयस्त्वम् । इतिशब्दोऽकामयतेत्यनेन संबध्यते ।
कथं पुनस्तेन यक्ष्यमाणस्य प्रजापतेर्भूयःशब्दोक्तिः । न हि स पूर्वमश्वमेधमन्वतिष्ठत्कर्मानधिकारित्वात्तत्राऽऽह —
जन्मान्तरेति ।
तदेव स्पष्टयति —
स प्रजापतिरिति ।
अथातीते जन्मनि यजमानोऽश्वमेधस्य कर्ताऽभूत् । अधुना हिरण्यगर्भो भूयो यजेयेत्याह । तथा च कर्तृभेदाद्भूयःशब्दसामञ्जस्यमत आह —
स तद्भावेति ।
स प्रजापतिरश्वमेधवासनाविशिष्टो ज्ञानकर्मफलत्वेन कल्पादौ निर्वृत्तो भूयो यजेयेत्याह कर्तृभोक्त्रोरैक्येन साधकफलावस्थयोर्यजमानसूत्रयोर्भेदाभावादित्यर्थः ।
प्रजापतिरीश्वरो न तस्य दुःखात्मकक्रत्वनुष्ठानेच्छा युक्तेत्याशङ्क्य प्रकृतिवशात्तदुपपत्तिमभिप्रेत्याऽऽह —
सोऽश्वमेधेति ।
कथमेतावता विवक्षितास्तुतिः सिद्धेत्याशङ्क्याऽऽह —
एवमिति ।
श्रमकार्यमाह —
स तप इति ।
चक्षुरादीनां यशस्त्वे हेतुमाह —
यशोहेतुत्वादिति ।
तदेव साधयति —
तेषु हीति ।
प्राणा एवेति तथाशब्दार्थः । सत्सु हि तेषु शरीरे बलं भवतीति पूर्ववदेव हेतुरुन्नेयः ।
उक्तमर्थं व्यतिरेकद्वारा स्फोरयति —
न हीति ।
प्राणानां यशस्त्वं वीर्यत्वं चोपसंहृत्य वाक्यार्थं निगमयति —
तदेवमिति ।
तत्प्राणेष्वित्यादि व्याचष्टे —
तदेवमित्यादिना ।
शरीरान्निर्गतस्य प्रजापतेर्मुक्तत्वमाशङ्क्याऽऽह —
तस्येति ॥६॥